________________
५२०
हीरसौभाग्यम्
[सर्ग १४ श्लो० ११८-११९
શ્લેકાર્થ
જેમ તારાઓથી પરિવરેલે શરદબાતુનો ચન્દ્ર વાદળમાંથી બહાર આવે તેમ “અમે જઈએ છીએ', એમ બાદશાહને કહીને સાધુએથી પરીવરેલા આચાર્ય મહારાજ રાજસભામાંથી બહાર પધાર્યા. ૧૧૮
तदा चकोरायितमर्णवायितं रथाङ्गितं कैश्चन कैरवायितम् । स्रवन्मुदत्रैश्च विधूपलायितं विलोक्य यद्वक्त्रमृगाङकमङ्गिभिः ॥ ११९ ॥
... तदा तस्मिन्नकब्बरसभाया बहिः प्रभोरागमनावसरे यस्य गुरोर्वकं मुखमेव मृगाङक चन्द्रं विलोक्य कैश्चनाङ्गिभिर्जनश्चकोरायित सरिमुखलावण्यामृतपानकारिभिज्योत्स्नाप्रिय रिवाचरितम् । पुनः कैश्चनार्णवायित प्रोल्लसितप्रह्लादकल्लोलपटलीप्रवर्धमानाङ्गरोमाञ्चचञ्चलशालिशफरितसमुद्ररिवाचरितम् । समुद्रा हि चन्द्रमालोक्य प्रवर्धन्ते इति जगत्स्व. भावः । कल्पसूत्रेऽपि क्षीरसमुद्रे कल्लोलोर्मयोऽपि दृश्यन्ते । तथा 'वेलावनीवनततिप्रतिबिम्बचुम्बिकिर्मीरितोमिचय चारिमचापलाभ्याम' इति नैषधे क्षीरसमुद्रवर्णने । पुनः कैश्चन रथाङ्गितम् । तादृशं जगजनैरभिनन्धमान प्रभुह्रदयमालोक्य । ह्रदयेऽभ्यस्याद्वैतदुःखं दधानः कुपाक्षिकैः चक्रवाकैरिवाचरितम् । चन्द्रोदये हि चक्रवाकानां दुःखमित्यपि जगत्स्वभावः। यदुक्तम्-'कथय किमपि दृष्टं स्थानमत्र श्रुतौं वा व्रजति दिनकरोऽयं यत्र नास्त कदाचित् । इति विहगसमूहं नित्यमापृच्छयमानो रजनिविरहभीतश्चक्रवाको वराकः ॥' इति चक्रवाकाष्टके । पुनः कैश्चित्कैरवायित विकसितनयनैः कुमुदैरिवाचरितम् । पुनः कैश्चन । स्रवन्ति नि:सरन्ति यानि हर्षाश्रूणि प्रमोदबाष्पाणि : कृत्वा विधृपलायित चन्द्रकान्तरत्नै रिवाचरितम् । चन्द्रोदये हि चन्द्रकान्तमणयो हि अमृत क्षीर वमन्तीति लोकरूढिः कविसमयश्च । तथा 'यदगारघटादृकुट्टिमस्रव दिन्द्रपलतन्दिलापया' इति नैषधेऽपि ।।
પ્લેકાર્થ
ત્યારે આચાર્ય મહારાજના મુખરૂપી ચન્દ્રનાં દર્શન કરીને કેટલાક ભવ્ય છે ચકેરરૂપે બન્યા, ઉલ્લસિત આનંદના કલ્લેલ વડે કેટલાક સમુદ્રરૂપે બન્યા, લેકેથી અભિનંદાતા આચાર્ય મહારાજને જોઈને કેટલાક વિરોધીઓ ચક્રવાકરૂપે બન્યા, વિકસિત નયને જોતા કેટલાક ચકારરૂપ બન્યા અને હર્ષાશ્રુ વડે કેટલાક ભાવિકે ચન્દ્રકાન્ત મણિરૂપે બન્યા. ૧૧૯
तदाभवद्भमिनभःप्रचारिणां जयारवो भूपुरहूतवर्त्मनोः । समीक्ष्य सूरमहिमानमुत्तमं हृदा दधाने इव रोदसी स्तुतः ॥ १२० ॥