________________
सर्ग १४ श्लो० ११६-११९ ]
हीरसौभाग्यम्
५१९
કાથ હે થાનસિંહ, ચન્દ્ર જેમ ક્ષીરસમુદ્રની વેલને પામે તેમ મારાં બાદશાહી વાજિંત્રના ઘોષપૂર્વક અને જગતના જીવોને આનંદદાયી મહામહોત્સવ પૂર્વક સૂરીન્દ્રને मेमना स्थाने पडया! ॥११६॥
प्रमाणमाज्ञा जगतीवसन्तिका सृजामि निःशेषमिदं नियोगिवत् ।। पुरा मदीहा पुनरीशशासनं पयस्तदेतत्सितया करम्बितम् ॥ ११७ ॥ हे प्रभो, जगतीवसन्तिका समस्तक्षोणीचक्रशिरःशेखरायमाणा । 'आपीडशेखरोत्सा वतंसाः शिरसः सृजि' इति हैम्याम् । 'विदर्भसुभ्रूश्रवणावतंसिका' इति नैषधे । आज्ञा श्रीमदादेशः प्रमाणं शिरस्यारोपयामि । हे स्वामिन, इद श्रीमत्प्रसादित निःशेष समस्तमपि सृजामि करोमि । किंवत् । नियोगिवत् । यः कश्चित्स्वस्य सुकरे दुष्करेऽपि कार्ये आप्रयुक्तः स वनिजजीवमपि दःखात्कृत्य कृत्यं कुरुते स नियोगी सेवक इव । यद्यप्यह श्रीमत्सेवकोऽस्मि पर नियोगिवत्कार्यकर्ता नास्मि केवल सेवाकार्येव । यथा परे नियोगिन आश्रवाः श्रीमद्वार्ताकारकाः श्रीमन्निर्दिष्टं कार्य कुर्वन्ति तथाहमपि करोमीत्यर्थः । पुनर्हे प्रभो, पुरा पूर्व मदीहा मम वाञ्छा आसीत् । यदेतान्महामहेन स्वालय नयामि । पुनस्तदुपरि ईशस्य पृथ्वीनाथस्य पातिसाहेः शासनं आदेशः तदेतत्सितया शर्करया करम्बितं मिश्रित पयो दुग्धं दुग्धपानमिव संजातमिति ॥
શ્લેકાર્થ હે પૃથ્વી પતિ, આપની આ આજ્ઞા હું શિરે ધાર્યા કરું છું. આપનું સંપૂર્ણ કાર્ય હું સેવકની જેમ કરીશ. પહેલાં પણ મારી ઈચ્છા હતી જ તેમાં આપ શ્રીમાનો આદેશ મારા માટે સાકર મિશ્રિત દૂધ બરાબર થયે ! ૧૧૭ |
अथैनमापृच्छय स भूमिभूषणं प्रदाय धर्माशिषमात्मना पुनः ।
सहानगारैनिरगात्समाजतः शशीव तारैः शरदभ्रगर्भतः ॥ ११८ ।। अथ थानसिंहस्य साहेस्तूर्यदानाद्यादेशानन्तर स सूरिरनगारैः सहागतसाधुभिः सह समाजतः सभामध्यान्निरगात् निर्जगाम । क इव । शशीव । यथा कौमुदीपतिस्तारैस्तारकैरुपलक्षादग्रहोडुभिः । 'प्रथममुपहत्यार्थ तारैरखण्डिततन्दुलिः' इति नैषधे । तारशब्दोऽ.
रान्तः । सर्वज्योतिभिः सार्ध शरदभ्रस्य शारदीनघनाघनस्य गर्भत उदरात निर्गच्छति । किं कृत्वा निर्गतः । एनमकब्बर भूमिपूषणं क्षोणीमण्ड.मार्तण्डमापृच्छ्य वय वसतौ व्रजाम इत्युक्त्वा पुनरस्य साहेरात्मना स्वेन धर्माशिषं धर्मलाभ प्रदाय दत्वा ॥ इति साहिना गोष्ठीकरणानन्तर सभाबहिः पादावधारणं प्रभोः ।।