________________
हीरसौभाग्यम्
[सर्ग १४ श्लो० ११४-११६
पुस्तकं गृहीत न वेति स्वयं पुनः पृष्टवान् । अपि पुनर्गणेन्द्रो गच्छनायकोऽपि तं भूपति तथेति मया श्रीमत्पुस्तकं गृहीष्यते गृहीतं वा इत्येवमवदत् जगाद । उत्प्रेक्ष्यतेअवनीमणेरकब्बरस्य मुदमानन्दं द्विगुणां प्रणेतुं विघातुमिव ॥ इति शेखथानसिंहविज्ञपनात्साहिपुस्तकग्रहणम् ॥
બ્લેકાર્થ
શેખ અને થાનસિંહ રાજા પાસે આવીને આચાર્ય મહારાજની સ્વીકૃતિ કહી, તે પણ તેને નિશ્ચય કરવાને માટે રાજાએ સ્વયં પૂછ્યું. ગુરુ મહારાજે રાજાને પણ પુસ્તકની સ્વીકૃતિ દર્શાવી. તે જાણે અકબર બાદશાહના દ્વિગુણ આનંદને વધારવા માટે ન હોય ! ૧૧૪ .
दयान्वितं धर्ममवाप्य सद्गुरोरिवार्णवात्कृष्णलताङ्कविद्रुमम् । स थानसिंहं यवनावनीधनस्ततः समाहूय गिरं गृहीतवान् ॥ ११५ ॥ सरिणा ततः पुस्तकादानस्वीकारकथनश्रवणानन्तरं वा सोऽकब्बरसाहिः यवनास्तुरुष्काः प्रस्थानालाभपुरीयादयस्तथा मुद्गलाः काबिलखुरासानादिजनपदजन्मानो म्लेच्छास्तेषामवनीधनो राजा थानसिंह समाहूय आकार्य गिरं वाणी गृहीतवान् जल्पति स्म । किं कृत्वा । सदगुरोः श्रीहीरविजयसूरीसकाशाद्दयान्वित कृपाकलितं धर्ममवाप्य लब्ध्वा । कमिव । कृष्णलताङ्कविद्रुममिव । यथा कश्चिदर्णवाजलनिधेः कृष्णलता 'कालीवेलि' इति लोके प्रसिद्धा । सा अङ्के हृदये मध्ये यस्य तादृशं प्रवालं लभते ॥
લોકાથ
સમુદ્ર પાસેથી જેમ કાલીવેલ પ્રાપ્ત કરે તેમ આચાર્ય મહારાજ પાસેથી દયાધર્મ પામીને અતિઆનંદિત બનેલા અકબર બાદશાહે થાનસિંહને બોલાવીને કહ્યું. ૧૧૫
मदीयतूर्यादिनिनादसादरं जगज्जनानन्दिमहेन मेदुरम् । त्वमालयं लम्भय साधुसिन्धुरं तटं शशीवामृतवाहिनीवरम् ॥ ११६॥ हे थानसिंह, त्वं साधुसिन्धुरं श्रीगुरुं मदीयानि तूर्याणि मम संबन्धीनि वादित्राणि तेषां निनादैर्घोषैः सहादरैर्वर्तन्ते एवं स्यात्तथा आलय स्वावासमुपाश्रय वा लम्भय प्रापय । क इव । शशीव । यथा चन्द्रमा अमृतवाहिनीवर सुधासिन्धुधव क्षीरसमुद्र तटं वेलावनी लम्भयति । ण्यन्तात्कर्मद्वयम् । पुनः कथम् । जगतां भुवनानां जनान् सुरासुरनरानानन्दयति ममोदयतीत्येवंशीलेन महेनोत्सवेन कृत्वामे दुर स्यादेवम् ॥