________________
सर्ग १४ श्लो ११२-११४]
हीरसौभाग्यम्
उभौ शेखनाथसिंहौ प्रभोहीरनरेः पुरोऽग्रे इत्यमुना प्रकारेण गदित्वा स्थितौ तूष्णी कृतवन्तौ इति पूर्वोक्तकारणात्स्ववचात्मीयमिव लमस्तपुस्तकमादत्त ग्रहयताम् । ततस्तयोरुक्तेरनु पश्चात् विनेया हीरसूरिशिष्याः वाचकविचक्षणगणिप्रमुखा गीतार्था अपि शेखथानसिंहकथितं स्वीकारयोग्यमास्ते तद्गृह्यतामिति तत्तदुक्तमेव बभाषिरे प्रोचुः । युक्तोऽयमर्थः । स्वयमात्मनैवागता संप्राप्ता इन्दिरा लक्ष्मीः कैर्मूर्खनिवार्यते निषिध्यते । अपि तु न कैश्चिदपि ।
શ્લોકાર્થ
સમસ્ત પુસ્તકનો જાણે સ્વીકાર થઈ ગયા હોય તેમ પૂર્વોક્ત પ્રકારે કહીને શેખ અને થાનસિંહે મૌનને આશ્રય કર્યો. ત્યારપછી આચાર્ય મહારાજના શિષ્યોએ પણ તે જ પ્રમાણે કહ્યું. ઘરને આંગણે ચાલી આવેલી લક્ષ્મીને કણ અનાદર કરે ! ૧૧૨
अवेत्य चेतस्यमुना समुन्नतिं स्वशासने पुस्तकसंग्रहेण सः । मुदामिवौङ्कार इदंक्षितिक्षितस्तथेति वाचंयमवासवोऽवदत् ॥ ११३ ॥
वाचंयमवासवः यतिजम्भारातिः तथेति एवमस्तु मया साहिप्रदत्तं पुस्तकं ग्रहीष्यते इत्यवदत् भाषते स्म । उत्प्रेक्ष्यते-इदंक्षितिक्षितः अस्याकब्बरपातिसाहेमुदां परमानन्दानामोङ्कारः आदिरिव । किं कृत्वा अवदत् । इत्यमुना मुद्गलाखण्डलेन चतुर्दिगधिपतिना पातिसाहिना स्वयमत्यागृह्य प्रदत्तानामेतत्पुस्तकानां संग्राहण कृत्वा स्वशासने जैनमते तपागच्छे वा समुन्नतिं दीप्तिमुद्द्योतं वा प्रभावनां चेतसि स्वहृदये अवेत्य विज्ञाय॥
શ્લોકાઈ
રાજાએ અર્પણ કરેલા પુસ્તકના સંગ્રહથી જૈનશાસનની ઉન્નતિ થશે એમ વિચારીને આચાર્ય મહારાજે “તથાસ્તુ' એમ કહીને સ્વીકારવાની અનુમતિ આપી. તે વાક્ય જાણે રાજાના હર્ષને ઉદ્ગાર ન હોય ! છે ૧૧૩
उपेत्य ताभ्यां तदभाषि भूपतेस्तदेष निश्चेतुमपृच्छदात्मना । मुदं प्रणेतुं द्विगुणामिवावनीमणेगणेन्द्रोऽप्यवदत्तथैव तम् ॥ ११४ ॥ ताभ्यां शेखथानसिंहाभ्यामुपेत्य पातिसाहिसमीपे समागत्य भूपतेरकब्बरस्य तत्सरिकथितपुस्तकस्वीकारवचः अभाषि प्रतिपादितम् । पुनः साहिस्तयोस्तचो नितुं सत्यतया ज्ञातुमात्मना स्वेन स्वयं वा तानपृच्छत् प्रश्नयति स्म श्रीमद्भिर्मदीय'