________________
सर्ग १४ श्लो० १०८ - १०९] हीरसौभाग्यम्
हमाउंसूः सोमयशोऽङ्गजन्मवददाति पात्रं गुरवो युगादिवत् । रसो यथेक्षोरपि वस्तु पुस्तकं कथं न ग्रहणीथ तदर्हमात्मनः ॥ १०८ ॥
हे सूरयः, हमाउंसूरकब्बर पातिसाहिः सोमयशसो बाहुबलेबृहत्पुत्रस्य यन्नामा चन्द्रवंशोऽजनि तस्याङ्गजन्मा पुत्रः श्रेयासस्तद्वदृदाति । आवश्यवृत्त्यनुसारेण बाहुबलिसुतः सोमप्रभस्तस्य पुत्री युवराजः श्रेयासः । आवश्यचूर्णौ तु 'भरहस्स पुत्रो सेज्जसौ अन्ने भणति । बाहुबलिस्स पुत्तो सोमप्पभोसे अंसो अत्ति तवं केवलिगम्यम् ||' पुनर्युगादिवत् वृषभजिनेन्द्रा इव । गुरवो यूयं पात्र सम्यक् श्रेयो बुद्ध्य दानोचितं स्थानमपि तु पुनर्यथा इक्षो रसालस्य रसः स्यन्दः तत्राभूत् । तथा अत्र पुस्तकं दातव्य' वस्तु । 'अथेक्षु स्याद्रसालोऽपि पत्रकः' इति हैम्याम् । तथा 'रसाल इक्षौ दूते च' इत्यनेकार्थः । ततो दातृपात्र सुवस्तुत्रयाणामप्यत्र संयोगो वर्तते, तत्कारणादात्मनः स्वस्यामुचित ग्रहीतुं योग्यं यूयं कथं केन प्रकारेण न गृहणीथ ग्रहयध्वे । अवश्य गृह्यतामेवेति थानसिंहोक्तिः ॥
શ્લેાકાથ
५१५
ગુરૂદેવ, જેમ શ્રેયાંસકુમારે યુગાદિદેવને ઈક્ષરસનું દાન કર્યું હતું તેમ અકબર બાદશાહ આપને ચાગ્ય એવા આ પુસ્તકને અપણુ કરે છે તે આપ કેમ સ્વીકારતા નથી ! શ્રેયાંસકુમારની જેમ અહીં પણ દાતા, પાત્ર અને વસ્તુ એ ત્રણેના સુમેળ છે. ૫ ૧૦૮૫
अमुं च जानीथ न मुन्द्लेश्वरं निदेशशूरं द्विषतां निषूदनम् । दिगीश्वरा fear वाखिलास्त्यजन्ति नाद्यापि दिगन्तवासिताम् ॥
हे प्रभवः, च पुनरमुमकब्बर परेषां मुत हर्षो गलति द्रवीभवति । यातीत्यर्थः । येभ्यस्ते मुद्गलास्तेषामपीश्वरं पराभवनकरणे समर्थ स्वामिनं च ऐन्दं युगीनचक्रवर्तिन न जानीथ सम्यक् हृदये न वित्थ नावधारयत । निदेशे आज्ञायां शूरमतिकठिनं य आज्ञां न मन्यते तं स्वशासनोल्लङ्घिनमवश्यमेव निगृह्णाति । पुनः किंभूतम् । द्विषतां वैरिणां निषूदनं मूलादुन्मूलनकारकम् । हे प्रभवः, अखिलाः समस्ता अपि दिगीश्वरा दिक्पालाः । उत्प्रेक्ष्यते - यच्चकिता यस्याद्भयभ्रान्ताः सन्त इव दिशामाशानामन्तेऽवसाने सन्तीत्येवंशीलास्तेषां भाव दिशां प्रान्तेषु दूरे निवसनशीलतामद्यापि एतद्दिन यावन्न त्यजन्ति ||
શ્લાકા
હે પ્રભુ, આપ અકબરને નથી જાણતા, એ જેમ આજ્ઞા આપવામાં શૂરવીર છે તેમ આજ્ઞાનું ઉલ્લંધન કરનારને શિક્ષા આપવામાં પણ તેટલા જ કાર છે. શત્રુઓનું