________________
सर्ग १४ श्लो० १०३-१०५] हीरसौभाग्यम्
५१३
इमं विकल्पं परिकल्प्य चेतसा विभूषयन्भागमितः क्षितेः परम् । सुधारुचेचारवशात्सवेशगो ग्रहः पदव्या इब मन्युभोजिनाम् ॥ १०३॥ महीमरुत्त्वानथ शेखशेखरं प्रतापदेवीतनयं तथाहवयत् । ततः सृजन्तौ प्रणति ग्रहेशितुर्ग्रहाविवास्यान्तिकमागतावुभौ ॥ १०४ ॥
अथ विचारकरणानन्तरमपरप्रदेशागमनानन्तरं च महीमरुत्त्वान् धरित्रीसुधाशमी शेखेषु यवनानां मान्येषु शेखरमवतंसं मुकुटं वा अबलफैजं तथा पुनः प्रतापदेव्यः रामासाधुतृतीयलघुपत्न्यास्तनय नन्दन थानसिंहावय चावयदाकारयामास । किं कुर्वन् । इमं पूर्वोक्त मनसैव विचारित विकल्प्यं विचार चेतसा चित्तेन परिकल्प्य कल्पयित्वा इतः सरिपात्परमन्यं क्षितेर्भूर्भाग प्रदेश स्थान विभूषयन सेवालंकुर्वन् । क इव । ग्रह इव । यथा भौमादिग्रहः चारवशाद्गतिविशेषायत्तत्वात् सवेशगः समीपप्राप्तः सुधारुचेश्चन्द्रस्य पार्वात्परं मन्यु यज्ञांशं भुश्चते इत्येवंशीला देवास्तेषां पदव्या मार्गस्य गगनस्य भागमन्यं प्रदेश भूषयति । ततः साहिना आकारणानन्तरमुभौ शेखथानसिंहौ प्रणति ‘पातिसाहिसलामत' इत्युक्त्वा भूमौ हस्तं दत्त्वा पुनर्भाले ददतौ पुनस्तदेव वदन्तौ तथैव विदधातौ च इति सलाममिति यवनजातिषु नमस्कृतेरभिधानं तामेव सृजन्तौ कुर्वाणौ सन्तौ अस्य साहेरन्तिकं संनिधानमागतौ। काविव । ग्रहाविव । यथा कौचिच्चारवशाभहे. शितुः सूर्यस्य पार्श्व आगच्छतः ॥ युग्मम् ॥
શ્લેકાર્થ
જેમ મંગલઆદિગ્રહ ગતિ વિશેષથી ચન્દ્રની સમીપના આકાશ પ્રદેશને શોભાવે તેમ પૂર્વોક્ત પ્રકારે વિચાર ને સૂરજ પાસેથી બાદશાહ અયસ્થાનને શોભાવ્યું. અને ત્યાં શેખના મુગટ સમાન અબ્દુલફ્રેજી અને પ્રતાપદેવીના પુત્ર થાનસિંહને બેલાવ્યા. સૂર્યની સમીપે જેમ રહે આવે તેમ તે બંને નમસ્કાર કરીને રાજાની સમીપે રહ્યાં. છે ૧૦૩ ૧૦૪
अमी न गृह्णन्ति मदीयपुस्तकं निरीहभावेन बहूदिता अपि । ततो युवां ग्राहयतां कथंचनाप्यमून्यशो मूर्तमिवेन्दुसुन्दरम् ॥ १०५ ॥
हे शेखथानसिंहौ, अमी सूरयो मया बहूदिता वारंवारं विज्ञप्ता अपि निरीहभावेन निःस्पृहत्वेन मदीयं मम संबन्धि अथ वा पद्मसुन्दरसत्कमपि मदधीनत्वान्मदीयमेव मद्दत्तं पुस्तक न गृहणन्ति नाददते, ततः कारणाधुवां भवन्तौ सरिपार्श्व गत्वा बहु बहु उक्त्वा कथंचन केनचित्प्रकारेणापि विज्ञप्तनुनयमत्सामर्थ्यान्वयप्रकटनप्रकारेणापि अमून सूरीन्प्रति इन्दुसुन्दरं चन्द्रोज्ज्वलं मूर्त प्रत्यक्षं यशः कीर्तिमिव मदीयपुस्तक' ग्राहयतां आदापयताम् । स्वीकारयतामित्यर्थः ।। हि० सौ०६५