________________
५१२
हीरसौभाग्यम्
[सर्ग १४ श्लो० १०१-१०२
यदाददे नैष मुहुर्बहूदितस्तदा हृदा भूपतिनेत्यचिन्त्यत । विधीयते किं बहुनिःस्पृहा अमी इवानुरागा न च विक्रमोचिताः ॥ १०१ ॥
यदा एष सूरिः भूपतिना मुहुर्वारंवारं बहु अत्यभ्यधिकमुदितो विज्ञप्तोऽपि नाददे साहिपुस्तक न गृहीतवान, तदा भूपतिना अकबरेण हृदा मनसा इत्यग्रे वक्ष्यमाणमचिन्त्यत विचारितम् । अहो कि विधीयते क्रियते । अमी सूरयो निःस्पृहा निरीहाः महानुभाषा मुनि विना क्षपि वस्तुनि न साभिलाषाः च पुनर्महत्त्वेन विक्रमस्य बल्लाकारस्यापि नोचिता नाहींः । क इव । अनुरागा इव | यथा आदिरागा बलयोग्या न भवन्ति । यतः सूक्तम्-'कविता वनिता गीतिः स्वयमेवागता वरम् । बलादाकृष्यमाणापि सरसा विरसा भवेत् ॥', तथा-'जरा यौवनस्यु प्राणन होइ जातई प्राणई प्राणन होइ । प्राणनाथस्यु प्राणन होइ कीर्तिप्रीतिस्यु प्राणन होइ ॥' इत्युक्तेः । नात्र बलदर्शनमुचितम् ॥
શ્લેકાર્થ જ્યારે રાજાએ વારંવાર કહ્યું તે પણ આચાર્યું ગ્રહણ કર્યું નહીં ત્યારે રાજાએ મનમાં વિચાર્યું કે આ સાધુઓ નિસ્પૃહી છે તે અનુરાગની જેમ બલાત્કારને યોગ્ય નથી. કહ્યું છે કે-કવિતા, વનિતા અને ગીત સ્વયં આવીને વરે છે પરંતુ બલાત્કારથી તે વિરસ બની જાય છે. જે ૧૦૧ !
अमीभिरुक्तिर्मम मन्यते न चेत्ततोऽन्तरा कश्चन संधिकर्तृवत् । विधीयते यद्विविधोक्तिभिः प्रभूनुरीकृति स्वेन स एव कारयेत् ॥ १०२ ॥
चेद्यदि अभीभिः सूरिभिर्ममोक्तिः मत्कथित न मन्यते नाङ्गीक्रियते ततः कारणात् संधिकर्तृवत् संधिकारक इव कश्चन शेखप्रमुखः कोऽपि अन्तरा ममैतेषां च साध्ये विधीयते यत्कारणात्स मध्य विहित एव प्रभून् सूरीन विविधा नानाप्रकारा या उक्तय अनुनयविनयमत्सामर्थ्यस्वभावजातिप्रकटीकारकाणि वाक्यानि वचनचातुरी विशेषास्तामिः कृत्वा उरीकृति स्वीकार कारयेत् । यतो महत्सु विक्रमो नौचितीमञ्चति किं त विज्ञप्तिरेव विधेया, यद्वा कमप्यन्तरा विधायानुनत्या प्रणत्या कथमपि कार्य कार्यमिति नीतिः ॥
લોકાથ
આટઆટલું કહેવા છતાં પણ સૂરિજીએ સ્વીકાર્યું નહીં તો હવે વચમાં કઈ સંક્ષિકાર રાખું! કે જે અનેક પ્રકારની યુકિતઓ વડે સૂરિજીને સમજાવીને પુસ્તકનો સ્વીકાર કરાવશે. જે ૧૦૨ .