________________
सर्ग १४ श्लो ९९-१०० ]
हीरसौभाग्यम्
नरेन्द्र यावद्वतिनां विलोक्यते तदस्त्यमीषां क्रियतेऽधिकेन किम् । विभोरिमां दामवदुद्वहन्हृदा गिरं पुनः क्षोणिपुरंदरोऽवदत् ॥ ९९ ॥
हे नराणां मध्ये इन्द्र सहस्रलोचन साहे, तिनां सर्वविरतिवतामनगाराणां प्रावत्प्र. माणमध्येतुं वाचयितुं विलोकयितुं विलोक्यते तावत्प्रमाणं पुस्तकममीषां यत्तिाती)नामस्ति विद्यते तर्हि मूर्छाकारिणा अधिकेन बहुना किं क्रियते । न किमपीत्यर्थः । पुनः क्षोणिपुरंदरो नृपोऽवदत् जगाद । किं कुर्वन् । विभोः सूरेरिमां यावत्पुस्तक विलोक्यते तावन्मात्रं तत्पुस्तक वर्तते । साधूनामधिकेनाधिकरणभूतेन पुस्तकेन किं विधीयते न किंचिद्विधेयमित्यादिकां गिरं वाणी हृदा मनसा उद्वहन् । किंवत् । दामवत्। यथा कश्चिद्भोगी पुमान् ह्रदा वक्षसा कुसुममालिकामुबहते धारयति ॥
બ્લેકાર્થ
સાધુઓને પઠન પાઠન યોગ્ય પુસ્તક અમારી પાસે છે તે મૂચ્છકારી અધિક પરિગ્રહ શા માટે ! સૂરિજીની આ પ્રકારની વાણીને પુમાલાની જેમ કંઠમાં ધારણ કરીને રાજા બોલ્યા. છે ૯૯
ब्रवीमि किं वो बहु येन निःस्पृहा महीधनाकिंचनतुल्यचक्षुषः । तथापि मन्त्राहुतिसिद्धदेववत्प्रसाद्य मे पिप्रतु यूयमीहितम् ॥१०॥
हे सूरयः, वो युष्मान प्रति बहु पुनः पुनरधिक वा किं ब्रवीमि कथयामि । येन का. रणेन यूयम् । बहुशब्द उभयत्रापि योज्यते । बहु अत्यधिक निःस्पृहाः कुत्रापि सरप्यभिलषणीये रमणीयेऽपि वस्तुनि वाञ्छारहिताः। पुनः किंभूत.: । महीधनाः भूपतयः तथा अकिंचना दरिद्राः तेषु लक्षणात्तुणे स्त्रैणे च अहौ हारे च दृषदि रत्ने च तुल्यं विशेषममत्वरहितं चक्षर्येषाम् । यद्यप्येवंविधाः स्थ यूयम्, तथापि प्रसाद्य मयि प्र. सादं कृत्वा मे मम ईहित पुस्तकादानलक्षणमभिलषितं यूयं पिप्रतु पूरयन्तु । किंवत् । मन्त्राहुतिसिद्धदेववत् । यथा प्रणवमायाबीजवाग्बीजकामबीजादियुक्तेन कृतपूर्वसेषोत्तरसेवाविधिना मन्त्रेण आहुत्या गुग्गुलागुरुफलावलीपञ्चामृतादिह वनं तेन च सिद्धः प्रसन्नीभूत: प्रत्यक्षीभूतश्च देवो मन्त्राधिष्ठाता सुसाधकस्य मनोवाञ्छित पूरयति ॥ इति साहेः पुस्तकदानाग्रहः सूरेनिषेधवचः ॥
બ્લેકાર્થ
' સૂરિજી, વધુ હું શું કહું! યપિ આપ નિસ્પૃહી છે. રાજા રંક, રત્ન પાષાણુ બધામાં દ્રષ્ટિ છે તે પણ પ્રસન્ન થયેલા મંત્રાધિષ્ઠાતા દેવની જેમ આપ મારી આ ઈચ્છાને પૂર્ણ કરે ! ૧૦૦