________________
हीरसौभाग्यम्
[सर्ग १४ श्लो० ९७-९८
क्षीरधिग्धाम्भोनिधिस्तस्य पारं दृष्टवतीति पारगामिनी मतिं बुद्धिं वहन्तो धारयन्तः स्थ वर्तध्वे । ततोऽद्वैतबुद्धिमत्त्वहेतोरिदं पुस्तकं विरञ्चिपुत्र्याः ‘दशमं ब्रह्मणः सुता' इत्युक्तत्वात् विधातुर्नन्दिन्याः सरस्वत्या इव वो युष्माक कराम्बुजं पाणिपदममलंकरोतु-। किंवत् । भरालवत् । यथा राजहंसः करतुलां रक्तत्वेन कोकनदमलंकुरुते । वि. रञ्जिपुञ्या अपि करकमले पुस्तकमास्ते । 'पुस्तकव्यग्रहस्ता च' इति स्तोत्रे ॥ इति पुस्तकोत्पत्तितत्प्रदानकथनम् ॥
શ્લેકાર્થ શાસ્ત્રરૂપો સમુદ્રના પારંગત અને અદ્વિતીય બુદ્ધિમત્તાને ધારણ કરનાર એવા હ તપસ્વસૂરિ, આ પુસ્તક રાજહંસના હાથમાં જેમ રકતકમલ શોભે છે તેમ સરસ્વતીની જેમ આપના હસ્તકમલમાં શેભાને પામે ! છે ૯૭ છે
इदं तदाकर्ण्य स कर्णकेसरी गिरं न्यगादीत्तमसामवावरीम् । अवाप्ततृप्तेरशनैरिवामुना न कृत्यमास्ते बहुधीवरीवर ॥ ९८ ॥ स कर्णकेसरी पण्डितपञ्चाननः सूरिस्तदा पुस्तकदर्शनसमये इदं पुस्तक यूयं गृणीत इति नृपतिनिगदितमाकर्ण्य श्रुत्वा तमसामज्ञानानां पाप्मनां वा अवावरीमपनेत्रीम् । 'ओण अपनयने' · ओण धातुः । 'अन्येभ्योऽपि दृश्यते' इति वनिप्प्रत्ययः । ‘णोन्ताद्वातो डीपूरौ' इति केचिदिति वन्प्रत्ययस्य ङीप् आगमो नकारस्य राकारादेशः । 'विश्नोरनुनासिकस्य' इति सूत्रेण धातोर्णकारस्याकारादेशः । ओकारस्यावादेशः । अवावरी इति सिद्धम् - इति प्रक्रियाकौमुद्याम् । दुरितहन्त्रीं गिर वाणी न्यगादीत् बभाषे । किमुवाच-बहवो धीमन्तो बुद्धिमन्तो वर्तन्ते यस्यां सा बहुधीवरी नगरी श्रीकरी तस्या वरः पतिस्तस्यां वरः श्रेष्ठः सर्ववेतृत्वात् सर्वाधिपतित्वात्तस्य संबोधनम् । बहुव्रीहौ वा ततो बहुधीवरी बहुधीवा इति प्रयोगद्वयं स्यात् । 'वनोर च' वनन्तात्त्रियां डीप रश्चान्तादेशादि सर्व पूर्ववत् । अयमपि प्रयोगः प्रक्रियायामेव । पुस्तकेन कृत्वा मम किमपि कृत्य कार्य नास्ति न विद्यते । कस्येव । अवाप्ततृप्तेरिव । यथा अवाप्ता लब्धा तृप्तिः साहित्य येन । एतावता आकण्ठमिच्छापूरणपर्यन्त भुक्त्वोत्थितस्य पुंसः अशने भोजने कृत्वा किमपि कार्य न स्यात् ॥
કાથ રાજાની વાણી સાંભળીને પંડિત કેશરી આચાર્ય મહારાજ પાપકર્મોને હણનારી વાણ બેલ્યા. શ્રીકરી નગરીના સ્વામિ એવા હે રાજન ભજન વડે તૃપ્ત થયેલા માણસની જેમ આ પુસ્તકનું મારે કંઈ પણ પ્રયે જન નથી. . ૯૮