________________
सर्ग १४ श्लो० ९५-९७ ]
हीरसौभाग्यम्
र्णधाः क्षीरनीराशयाः रत्नाकर त्वात भवादृशाः श्रीमत्सदृशाः केऽपि परे दशा मया लोचनेन न वीक्षिता दृष्टाः । युक्तोऽयमर्थः । हे गुरो, निर्जराणामर्जुनी सुरगवी कामधेनः, मणी सुरमाणिक्यं चिन्तारत्नम, महीजन्मानः सुरतरवः कल्पद्रमाः, निपाः सुरकलशाः कामकुम्भाः, अवनीधराः सुरगिरयः मेरुपर्वताः । किमु इति प्रश्ने । पदे पदे स्थाने स्थाने किं स्युः । अपि तु न भवेयुः । निर्जरशब्दादग्रे अर्जुन्यादयः शब्दाः योज्याः । ततः कामधेन्वादीनि नामानि भवन्ति । यथा श्रीचिन्तामणिपार्श्वनाथस्तोत्री'गीर्वाणद्रुमकुम्भधेनुमणयस्तस्याङ्गणरिङ्गिणः' इति ॥
બ્લેકાર્થ
તેથી હે પૂજ્ય, અગણિતગુણરૂપી રત્નના સાગર સમાન આપના સિવાય અન્ય કેઈ સુપાત્ર મારી દ્રષ્ટિમાં આવ્યું નથી. શું સ્થાને સ્થાને કામધેનુ, ચિંતામણિરત્ન, કલ્પવૃક્ષ કે મેરૂ પર્વત સંભવી શકે છે ! ૯૫
इदं तदादत्तसमस्तपुस्तकं मुनीश्वरा मामनुगृह्य शिष्यवत् । यदत्र पात्रप्रतिपादनं नृणां भवाम्बुराशौ कलशीसुतीयते ॥ ९६ ॥
हे मुनीश्वराः सूरयः, तदुत्तमपात्रत्वादिकारणात् शिष्यवन्निजविनेयमिव स्वभक्त. मिव वा मामनुगृह ममोपरि अनुग्रहं प्रसादं विधाय इदं पद्मसुन्दरसत्कं श्रीमत्पुरो मया ढौकितं समस्तमपि पुस्तकं लिपीकृतशास्त्रजातमादत्त गृह्णीत । यतो हेतोरत्र जगति पात्रप्रतिपादनं साधुदानं नृणां भव्यजनानां भवाम्बुराशौ संसारसमुद्रे कलशी. सुतीयते अगस्त मि(स्तिरि)वाचरति । भवसागरं निष्ठापयति । घटः कुम्भः कलशः त्रयोऽपि पुंस्त्रीलिङ्गे ॥
પ્લેકાર્થ
તેથી હે મુનીશ્વર, આ સમસ્ત પુસ્તક ભંડાર શિષ્યની જેમ મારા ઉપર અનુગ્રહ કરીને આપ ગ્રહણ કરે ! કહ્યું છે કે આ લેકમાં કરેલું સુપાત્રદાન મનુષ્યના સંસાર રૂપી સમુદ્રને અગસ્તઋષિની જેમ ચૂલકરૂપે બનાવી દે છે. ૯૬
मतिं श्रुतिक्षीरधिपारदृश्वरी यतो वहन्तः स्थ तपस्विशेखराः । इमं ततोऽलंकुरुतां मरालवद्विरश्चिपुत्र्या इव वः कराम्बुजम् ॥ ९७ ॥
हे तपस्विशेखराः, तपोरूपं स्वं स्वापतेयमस्त्येषामिति तपस्विनः । 'अस्य स्वं तपो. योगसमाधयः इति हैम्याम् । एतावता श्रमणावतंसाः श्राम्यन्ति तपसा इति श्रमणा इति भगवद्विशेषणेन सार्थकं पूर्वोक्तं नाम । यतः कारणात् श्रुतयः शास्त्राणि ता एव