________________
५०६
सौभाग्यम् [ सर्ग १४ श्लो० ८९-९१
रामने पुस्त मां रडेला असर, ज्योतिष, अव्य, नाटक, प्रमाणु, वेहांत, व्याभ्रषु अने अंग, उपांग, भाष्य, यूर्छुि, भने निर्युठितना श्रथेो मतान्या ॥ ८७ ॥
निभालय निःशेषमिदं स्वचक्षुषा हृदा दधत्प्रीतिमिवेन्दिरात्मजः । भाण भूमीमणिर्गणीश्वरं तृणीकृतानेकनरेन्द्रविक्रमः ॥ ९० ॥
भूमी मणिः क्षोणीसहस्रकिरणः पातिसाहिः । 'मध्यंदिनावधिविधेर्वसुधाविवस्वान' इति नैषधे | गणीश्वरमनूचानचक्रिणं प्रति बभाण वदति स्म । किंभूतः । तृणीकृतः अधरितस्तिरस्कृतः तृणप्रायो गणितः अनेकेषां परोक्षाणां नरेन्द्राणां क्षोणीपालानां विक्रमो वीर्यं येन । किं कुर्वन् । हृदा हृदयेन प्रीतिं प्रमोदं स्नेह च दधत् । क इव । इन्दिरात्मज इव । यथा कमलानन्दनो हृदा वक्षसा कृत्वा । 'ममासनार्थे भव मण्डनं ननु प्रिये मदुत्सङ्गविभूषणं भव । भ्रमामादालपमङ्गमृष्यतां विना ममोरः कररत्नवासनम् ॥' इति नैषधे । प्रीतिं प्रीत्या स्वपत्नीं धत्ते । किं कृत्वा । स्वचक्षुषा निजनेत्रेण निःशेषं समस्तमपि तत्पुस्तकं निभाय त्रिलोकयित्वा ॥ इति यतिप्राक्तपुस्तकरहस्यावबोधः ॥
શ્લેાકાથ
પેાતાના પરાક્રમ વડે અનેક રાજાઓને પરાસ્ત કરનાર પૃથ્વી સૂર્ય ખાદશાહે પેાતાનાં નેત્ર વડે આ સમસ્ત પુસ્તકને જોઈ ને કામદેવની જેમ હૃદયમાં પ્રીતિને ધારણ કરતાં સૂરીન્દ્રને કહ્યું : ॥ ૯૦ ॥
पुराभवत्प्रीतिपदं वयस्यवद्विशारदेन्दुर्मम पद्मसुन्दरः ।
न येन सेहेऽम्बुरुहामिवावली हिमर्तुना पण्डितराजगविताम् ॥ ९१ ॥
हे सूरे, पुरा पूर्व मम वयस्यवन्मित्रमिव प्रीतिपदं स्नेहभाजनं पद्मसुन्दर इति नामा विशारदेन्दुः विचक्षणचन्द्रमाः अभवद्बभूव । येन पद्मसुन्दरेण पण्डितराजस्य कस्यचिद्वाराणसीतः पठित्वा समेतस्य स्वगुरुणाप्यजेयतां स्वस्य प्रख्यापयतः पण्डित विशेषविप्रस्य पण्डितराजेत्यभिधानं प्रकटयतः गर्विता स्वचित्तकल्पितानल्पाहंकारित्वं न सेहे न सोढा । वादेनि (वि) र्जित्य सभासमक्षं तद्वर्वे निर्वासयामासेत्यर्थः । केनेव । हिमनेव । यथा हेमन्तकालेन अम्बुरुहां पद्मानामावलिर्न सह्यते । हिमपातेन पद्मानि कोमलत्वगिलित्वा यान्ति ॥
શ્લેાકાશ
હે આચાય, પૂર્વે મારા પ્રીતિપાત્ર મિત્રસમાન પદ્મસુંદર નામના પંડિતરાજ હતા. જે પદ્મસુદર હેમંતૠતુ જેમ કમલેાને મ્યાન કરે તેમ સભાસમક્ષ પતિરાજોના ગવને વાદવિવાદમાં ગલાવી દીધા હતા. ॥ ૯૧ !