________________
सर्ग १४ श्लो० ८०-८१ ]
हीरसौभाग्यम्
५०१
स्फुरन्ति शिष्याः कति वो व्रतीश्वराश्चरित्रदुग्धाम्बुधिनन्दना वराः । इभप्रभूणां कलभा इवावनीरुहां सुमानीव करा विवस्वताम् ॥ ८० ॥
हे व्रतीश्वराः सूरयः, वो युष्माक चरित्र सदाचरणमूलसंयमस्तदेव दुग्धाम्बुधिनन्दना क्षीरसमुद्रतनया लक्ष्मीः। 'सायमित्थमथ भीमनन्दनाम्' इति नैषधे । नन्दना नन्दिनी आकारेकारान्तौ द्वावपि शब्दो दृश्यते । ते तस्या वरा भर्तारः संयमिनः । अथ वा तया लक्षम्या कृत्वा वराः श्रेष्ठाः व्यवहारिणश्चारित्रिणः कति कियत्संख्याकाः शिष्या विनेयाः स्फुरन्ति वर्तन्ते । केषामिव । इभप्रभूणामिव यूथनाथगजराजानामिव । महत्त्वादबहुत्वाद्वा बहुत्वम् । कलभास्त्रिंशदब्ददेशीयाः सिन्धुरा भवेयुः । पुनः केषामिव । अवनीरुहामिव । 'रुटरुहजन्मजः' इति हैम्याम् । यथा वृक्षाणां सुमानि पुष्पाणीव भवेयुः। पुनः केषामिव । विवस्वतामिव । यथा मार्तण्डानां कराः किरणाः स्युः। इति साहेः गुरून्प्रति शिष्यप्रश्नः ।
શ્લેકાર્થ
હે વતીશ્વર, ગજરાજના બાલહસ્તિઓ સમાન, વૃક્ષનાં પુષ્પ સમાન, સૂર્યનાં કિરણે સમાન અને ચારિત્ર નીરક્ષીરસમુદ્રના શ્રેષ્ઠ પુત્ર સમાન આપને સંયમી એવા ४८सा शिष्य छ १ ॥ ८० ॥
नृपं प्रति व्याहृतवानिति व्रतीशिता कियन्तो मम सन्ति भूपते । इदं मुनीन्द्राननपद्मसंभवं स भृङ्गवद्वाङमकरन्दमापपौ ॥ ८१ ॥ ततो व्रतीशिता सूरि पमकब्बरं प्रति इत्यमुना प्रकारेण व्याहृतवान् भाषते स्म । हे भूपते, मम शिष्याः कियन्तः कतिचिद्वर्तन्ते । परं संख्या नाख्यायि । यतः सन्तः उत्तमा निजगौरव स्वमुखेनैव न ख्यापयन्ति । यदुक्तम्-'न सौख्यसौभाग्यकरा नृणां गुणाः स्वयं गृहीता युवतीस्तना इव । परैगृहीता द्वितयं वितन्वते न तेन गृह्णाति निज गुणं महान् ॥' इति । ततोऽनन्तरं स भूमान् इदं स्वमदपरिहारद्वारा शिष्यसंख्याकथनरूपं मुनीन्द्रस्य सूरेरानन मुखमेव पद्म कमल तस्मात्संभव उत्पत्तिर्यस्य तादृशं वाक् पचनमेव मकरन्दं मधु आपपौ सादरं श्रुणोति स्म । किंवत् । भ्रङ्गवत् । यथा भ्रमरकः कमलोद्भव मकरन्दमापिबति । 'सुरासुरनराकारमधुपापीतपत्कजः' इति सारस्वतव्याकरणप्रान्ते आपीत इति प्रयोगो दृश्यते ।।
કાથ
રાજાના પ્રશ્નના જવાબરૂપે ગુરુમહારાજે કહ્યું ઃ રાજન, મારે કેટલાક શિખ્યો છે. આ પ્રકારની સૂરિજીના મુખરૂપી કમલમાંથી ઉત્પન્ન થયેલી વાણીરૂપ મકરંદનું રાજાએ ભ્રમરની જેમ પાન કર્યું. એ ૮૧ છે