________________
हीरसौभाग्यम्
[सर्ग १४ श्लो० ७८-७९
कलिं कृतीकर्तुमयं स्वयं वपुर्दधाति धर्मः किमिदंनिभाद्भुवि । गुणानिशम्येति गुरोनॅपस्तुतांश्चमत्कृतः स स्वपदं मुदागतः ।। ७८ ॥
हे शेख, भुवि पृथिव्यामिदंनिभादस्य सुरेाजात् अयं प्रत्यक्षलक्ष्यः स्वयमात्मना धर्मो दयारूपः । उत्प्रेक्ष्यते-किम् । वपुः शरीर दधाति । किं कर्तुम् । कलिं कलिनामानं युग कृतीकर्तुं कृतयुगं विधातु कृतयुगतां प्रापयितु वा । स शेखः अबलफैजनामा इति पूर्वोक्तप्रकारे नृपस्तुतानकब्बरपातिसाहिना स्वनखेन वर्णितान गुरोहीरविजयसरेर्गुणानिशम्य नितरां सोत्कण्ठं सरोमाञ्चं कञ्चुकं श्रुत्वा चमत्कृतो निजह्रदये विस्मयं प्राप्तः सन्नदा प्रमोदेन स्वपदं साहिसभाया मध्ये यत्र सर्वोऽपि सामन्तभूपाला उठी दमीभूयावतिष्ठन्ते, यत्र च स्वेनाप्यूर्वीभूय स्थीयते तस्मिन् स्थाने जग्मिवान् ॥ इति शेखपुरः साहिवर्णिता गुरोर्गुणाः ॥
શ્લેકાર્થ
હે શેખ, પૃથ્વીમાં આ સૂરિજીના ખાને કલિયુગને કૃતયુગ કરવા માટે સાક્ષાત્ સદેહે દયાધર્મ આવ્યું ન હોય ! રાજા પાસેથી આ પ્રકારની સૂરિજીના ગુણેની પ્રશંસા સાંભળીને આશ્ચર્ય પામતે શેખ અબ્દુલ પોતાના સ્થાને આવે. |૭૮
पिबन्मुनीन्द्रस्य शमामृतं दृशा मुदश्रुदम्भेन तदुगिरनिव । अकब्बरो बब्बरवंशमौक्तिकं पुनः पुरस्तस्य गिरं गृहीतवान् ॥ ७९ ॥
अकबरसाहिस्तस्य सूरेः पुरोऽग्रे पुनः पुनरपि गिर वाणी गृहीतवाञ्जग्राह । उवा. चेत्यर्थः । किंभूतः अकब्बरः । बब्बरोऽस्य पूर्वजः पातिसाहिस्तस्य वंशे गोत्रे वेणौ च मौक्तिक मुक्ताफलोपमः । यदुक्तम् –'समुद्रस्ताम्रपर्णी च वंशः करिशिरस्तथा । उत्प. धन्ते मौक्तिकानि प्रायोऽभीषु परत्र न ॥' इति वचनप्रमाण्यतः । किं कुर्वन्नकब्बरः । दृशा स्वनयनेन कृत्वा मुनीन्द्रस्य हीरसूरेः शमामृत शान्ततासुधारस पिबन्नास्वादयन हृदये एव स्वचमत्कार वर्णयन् सादरं मुहुः पश्यन् । उत्प्रेक्ष्यते-तच्छमामृतपानं मु. दश्रुदम्भेन प्रबलप्रादुर्भवदप्रतिमोदोदीतनयनबाष्पव्याजेन उदगिरन्वमन्नित्र अतितृप्ततया बह्वमृतपानं हृदयान्तराबहिरुगिरन्निव ।।
શ્લોકાથ
બમ્બરકુલમાં મૌક્તિક સમાન બાદશાહ અકબર પિતાનાં નેત્રો વડે આચાર્ય ભગવંતના શાંતસુધારસનું પાન કરતો અને હષાશ્રના બહાને હાર પ્રગટ કરતે વારંવાર સૂરિજીની વાણીને ગ્રહણ કરતે હતે. ૭૯