________________
सर्ग १४ श्लो ७५-७७ ]
हीरसौभाग्यम्
સમાન અન્ય કઈ ગાય નથી, મેક્ષસ્થાન સમાન અન્ય કેઈ સ્થાન નથી, અને દયાધામસમાન અન્ય કોઈ ધર્મ નથી તેમ આ આચાર્ય સમાન અન્ય કોઈ જીતેન્દ્રિય સાધુ नथी. ॥७४ ॥ ७॥
श्रवःपथातिथ्यमनायि यादृशो वशी दशा दृश्यत एव तादृशः । । इदंगुणौधान्गणयञ्जगगिरामगोचरान्कि स्थविरोऽभवद्विधिः ॥७६ ॥
हे शेख, यादृशो यादृक्प्रकारो मत्स्यदस्यैः सम्यक् वर्ण्यमानः असौ वशी पञ्चेन्द्रियाणि मनश्च वशे स्वाधीतप्रचाराणि सन्त्यस्येति योगीन्द्रः श्रवःपथस्य श्रवणमार्गस्य आतिथ्यमातिथेयीं प्राघणतां या अनायि मया नीतः । श्रुत इत्यर्थः । तादृशस्तादृग्गुणप्रकार एव दृशा लोचनेन दृश्यते विलोक्यते । हे अबलफैज शेख, जगतां विश्वजनानां गिरां वाचामगोचरान अविषयान् सुरासुरनरैरपि संस्तोतुमशक्यान् कथयितु वा इदं. गुणोधान् अस्य सरेर्गुणगणान् गणयन् संख्यां प्रापयन् । उत्प्रेक्ष्यते-विधिविधाता स्थविरो वृद्धः किमभवत्संजात इव तन्नामापि ॥
શ્લેકાર્થ હે શેખ, આ આચાર્યને મેં જેવા પ્રકારના સાંભળ્યા હતા તેવા પ્રકારના જ સાક્ષાત બ્રહ્મા જ ન હોય! ૭૬ છે
ददाति धाता गिरिशश्च शक्तिभृच्चतुर्मुखी पञ्चमुखीं च षण्मुखीम् । भुजंगराजो द्विसहस्रजिहतां बिभर्ति संस्तोतुमिवोत्सुकीभवन् ॥ ७७ ॥ हे शेख, यं सूरिराज' संस्तोतु वर्णयितुम् । उत्प्रेक्ष्यते-उत्सुकीभवनुत्कण्ठतां धारयन सन् धाता जगत्कर्ता चतुणाँ मुखानां समाहारश्चतुर्मुखीमिव दधाति धत्ते । पुनगिरीशः शंकरः पञ्चमुखी पञ्चवक्रवाणीव दधाति बिभर्ति । पुनः शक्तिभृत्स्वामिकार्तिकः षण्मुखी षड् वदनानीव कलयति । पुनर्भुजंगराजो नागेन्द्रः शेषनागो द्विसहस्रजिहतां दे सहस्त्रे जिह्वा रसनाब्धिसहस्रमिता वा जिह्वा रसज्ञा यस्य तस्य भावः जिह्वानां विंशतिशतीं बिभर्ति धारयति । 'प्रजापतिर्ब्रह्म चतुर्मुखो भवान्,' तथा 'मृत्युंजयः पञ्चमुखोऽष्ठमूर्तिः,' तथा 'कुमारः' इति हैम्यां त्रयमपि। तथा 'यस्यास्मिन्नुरगप्रभोरिव भवेजिह्वासह मद्वयम्' इति चम्पूकथायाम् ॥
કાર્ય શેખ, મને લાગે છે કે સુરિજીની સ્તુતિ કરવા માટે ઉત્સુક થયેલા બ્રહ્માએ ચારમુખને, શંકરે પાંચમુખને, કાર્તિકસ્વામીએ છમુખને અને શેષનાગે બે હજારને पा२५ ४२री ! ॥ ७७ ।।