________________
हीरसौभाग्यम्
[सर्ग १४ श्लो० ८२-८४
जगाद गाजी गणपुंगवं पुनः पुरा मयेति श्रुतिगोचरीकृतम् । विलोचनानामिव भोगिनां विभोः सहस्रयुग्मं शमिनां समस्ति वः ॥८२ ॥
मुद्गलजनपदप्रसिद्ध महत्त्वख्यापकं यवनज्ञातेरभिधान गाजीति । स गाजी अकब्बरसाहिः गणपुंगव तपागच्छवृषभ मुख्यं वा प्रति जगाद गदति स्म । हे व्रतीश्वराः, पुरा पूर्व मया जनवार्तया इति श्रुत्योः श्रवणयोर्गोचरीकृतं विषये विहितमास्ते वर्तते । इति किंम् । वो युष्माक शमिनां शिष्यीभूतानां साधूनां सहस्रस्य युग्मं युगलं द्विसहस्री। सम्यक विद्यते इति समस्ति । केषामिव । विलोचनानामिव । यथा भोगिनां भुजंगमानां विभोः स्वामिनः शेषनागराजस्य नेत्राणां नयनानां सहस्रद्वयी आस्ते । 'शेषो नागाधिपोऽनन्तो द्विसहस्राक्ष आलकः' इति हैम्याम् । सहस्रफणामण्डलधरणीधारकत्वात् सहस्रः फणानां सहस्रनेत्रद्वयभावात् ॥ इति साहिना स्वयमेवोक्तमूरिशिष्यसंख्या ॥
શ્લેકાર્થ
ગાજી અકબરે કહ્યું: પૂર્વે મેં સાંભળ્યું હતું કે શેષનાગનાં બે હજાર નેત્રોની જેમ આપને બે હજાર સંયમી શિષ્ય છે ! ૮૨
ततः क्षितीन्द्रः वतिनां व्रतीश्वर समीपभाजा ममिधाः स्म पृच्छति । परस्परं तस्य पुरस्त एव ताः महामणीनामिव तद्विदोऽवदत् ॥ ८३॥
सतः स्वयं सूरिशिष्यकथनानन्तर क्षितीन्द्रः साहिः व्रतीश्वरं सूरि प्रति समीपं भग वत्सनिधान भजन्ति इति तत्समयसूरीसमीपस्थायुकानां व्रतिनां साधूनामभिधा नामानि पृच्छति स्म । ततस्तस्य नृपस्य पुरोऽये परस्परमन्योन्य तद्विदो व्रतिनामज्ञास्त एव बेतिनो गीतार्था एव ताः पण्डितनामाभिधा अभिधानानि अवदन्कथयति स्म । केषामिव । महामणीनामिव । यथा तद्विदो महामणीगुणवेत्तारः परीक्षका महामणीमभिघा वज्रमरकतवैडूर्यपद्मरागादिनामानि कथयति ॥ इति यतिना परस्पराभिधाननिवेदनम् ॥
બ્લેકાર્થ
ત્યાર પછી રાજાએ આચાર્ય મહારાજ ની સમીપે રહેલા સાધુઓનાં નામ પૂછયાં! રત્નના પરીક્ષક જેમ રોના નામ કહે તેમ મુનિ પુંગવેએ રાજાની આગળ પરસ્પરનાં નામ કહ્યાં. એ ૮૩ .
गृहादथानायितमङ्गजन्मना स खानखानेन च मुक्तमग्रतः । महीमरुवान्प्रमदादिवोपदां मुनीशितुढौंकयति स्म पुस्तकम् ॥ ८४ ॥