________________
४९६
हीरसौभाग्यम्
[सर्ग १४ श्लो० ६९-७१
भूधनोऽकब्बरः पुनः पुनर्वारं वारं तत्फलं तस्य मीनराशिगतस्य छायासुतस्य फलं प्रश्नयति स्म शुभाशुभविनिर्माणकारण पृष्टवान् । किं कृत्वा । इतरासु स्वद्वादशराशिस्थमन्दफलप्रश्नादपरासु वार्तासु किंवदन्तीषु प्रवृत्त्य प्रवृत्ति कृत्वा मध्ये मध्ये अन्यां वार्ता विधाय । पुनर्मुहुस्तदेवानुयुनक्ति स्मेन्यर्थः । यदा यस्मिन्काले तदा स्यात् सूरिवत्रा धर्मतः अपरमन्यन्नोदगात् न प्रकटीभूतम् । कस्मादिव । शशाङ्कबिम्बादिव । यथा चन्द्रमण्डलादमृतात्पीयूषादन्यन्नोद्गच्छति ॥
કાર્ય
અકબર બાદશાહ જ્યારે બીજી બીજી અન્ય વાતની મધ્યમાં પણ વારંવાર શનિના શુભાશુભ ફલને પૂછે છે ત્યારે ચન્દ્રથી જેમ અમૃત તેમ આચાર્ય ભગવંતના મુખમાંથી ધર્મ સિવાય અન્ય કોઈ પણ વાત પ્રગટ થતી નથી. ૬૯
तदा मुदोरीवलयोर्वशीवशो विधाय शेखं स्वसवेशदेशगम् । स बन्दिवृन्दारकवत्प्रणीतवान्पुरोऽस्य सद्भूतगुणस्तुर्ति गुरोः ॥ ७० ॥
तदा तस्मिन् समये सरिसम्यक्परीक्षाकरणानन्तरं प्रक्रमे स उर्वीवलयस्य मेदिनीमण्डलस्य उर्वशीवशः पुरूरवाश्चक्रवर्ती । 'तमेनमुविलयोर्वशीवशः' इति नैषधे । तथा 'पुरूरवा बालऐल उर्वशीरमणश्च सः' इति हैम्याम् । अकब्बरो मुदा हर्षेण कृत्वा अस्य शेखस्य यवनजातिगुरुप्रायस्य पुरोऽग्रे गुरोः सूरीन्दोः सभ्दूताना सतां वर्णनीयानां भूतानां विद्यमानानाम् । 'भूतैर्गुणैर्भवि भवन्तमभिष्ट्रवन्तः' इति भक्तामरस्तवे । स्ततिवर्णनां प्रणीतवान् चकार । किंवत् । बन्दिवृन्दारक वत् । यथा मङ्गलपाठकपुंगवा गुणानां स्तुतिं प्रणयति । वृन्दारकशब्देन प्राधान्यमपि दृश्यते । यथा चम्पूकथायाम्-'सोऽहं हंसायितुं मोहादबक्रः पर्यथेच्छति । मन्दधीस्तद्वदिच्छामि कविवृन्दारकायितुम् ।।' इति । स्तुवति स्म । किं कृत्वा । शेखम् अबलफैजनामानं निजसामन्तीभूतं स्वम्यात्मनः सवेशदेशं समीपभूभागं गच्छतीति तादृशं विधाय । स्वकीयसंनिधावाकार्येत्यर्थः ।।
પ્લેકાર્થ
ત્યારે અતિ આનંદપૂર્વક રાજાએ શેખ અબ્દુલફેંજી પાસે આવી તેમની આગળ મંગલપાઠકની જેમ સૂરિજીના સદ્ભુત ગુણેની ભૂરિ ભૂરિ પ્રશંસા કરી. છે ૭૦ છે
मया विशेषात्परदर्शनस्पृशो गवेषिताः शेख न तेषु कश्चन । व्यलोकि वाचंयमचक्रिणः सदृङभृगेषु कोऽप्यस्ति मृगेन्द्रसंनिभः ॥ ७१ ॥