________________
सर्ग १४ श्लो० ६७-६९ ]
हीरसौभाग्यम्
४९५
स साहिः पुनर्महीमण्डलस्य क्षोणीचक्रस्य मत्स्यलाञ्छनः अतिशायिरूपवत्वेन रति. पतिः । 'निषधवसुधामीनाङ्कस्य प्रियाङ्कमुपेयुषः' इति नैषधे । स साहिर्वाणीं वाचं वद. नानुषङ्गिनी मुखपद्मसंगतां चकार कृतवान् । उवाचेत्यर्थः । किं कृत्वा । श्रोत्रपुटैः स्थ कर्णरूपपत्रपुटकैः प्रभोः सरेः ताम् अहं धर्मशास्त्रादन्यन्न वेद्मीति लक्षणां गिर वाणी निपीय सादरमाकर्ण्य पीत्वा च । क इव । यथा अमृतपानकृद्देवः सुधांशोश्चन्द्रमसः सुघां निपीयते। 'पीङ् पाने' दिवादिरात्मनेपदी च ॥
પ્લેકાર્થ
જેમ દેવ ચન્દ્રથી સુધાનું પાન કરે તેમ ગુરુભગવંતની પાણી સુધાનું પાન કરીને ભૂમંડળમાં કામદેવ સ્વરૂપી રાજા છે. એ ૬૭
धुतामिवार्काः पयसामिवार्णवा यतः श्रुतीनां निधयः स्थ सूरयः । इदं न जानीथ ततः कथं भवेदगोचरः कश्चन सर्वविच्चिदाम् ॥ ६८॥ हे सूरयः, यतः कारणायूय श्रुतीनां सर्वशास्त्राणां निधयः स्थ निधानानि वर्तध्वे । के इव । अर्का इव । कविसमयोक्तद्वादशानामपेक्षया बहुत्वम् । यथा भास्करा द्युतां कान्तीनां निधयः । पुनः क इव । अर्णवा इव । अत्रापि कविसमयानुसरणात्सप्तानामपेक्षया बाहुल्यम् । यथा समुद्राः पयसां पानीयानां निधयः सन्ति । जनसमयानुसारेण त्वसंख्यातास्तत्रापि बहुत्वमेव । ततस्तस्मात्कारणादिद मदुक्तं शौरीनराशावागमनफलमन्यग्रहादिचारागमादिफलं वा कथं केन प्रकारेण न जानीथ वित्थ । युक्तोऽयमर्थः । उक्तमर्थमर्थान्तरेण वा द्रढयति-कविः सर्व समस्तमतीतानागतवर्तमानरहोगतप्रकटभूत विदन्ति जानन्तीति सर्वज्ञास्तेषां चिदां ज्ञानागां कश्चन पदार्थोऽगोचरः अविषयः अज्ञेयः। अपि तु सर्वमपि सर्वज्ञज्ञानगोचर एव । तस्मायूयं समस्तं स्वपरशास्त्राणि जानीथ एवेति सर्वज्ञज्ञानानां महत्त्वापेक्षया बहुत्वम् । अथ वा मतिश्रतावधिमनः पर्यवकेवलाभिधानानां बहूनां ज्ञानानामप्यपेक्षया बहुत्वम् ॥
કાથી
હે સ્વામિન, સૂર્ય જેમ તેજનો ભંડાર છે, સમુદ્ર જેમ જલનો ભંડાર છે તેમ આપ સર્વશાસ્ત્રના નિધાન છે, આપ સ્વ પરશાસ્ત્રોના જ્ઞાતા છે, તો સર્વસના જ્ઞાનની જેમ આપના જ્ઞાનમાં શું કે ઈપણ પદાર્થ અગોચર હેઈ શકે ! અર્થાત્ નહીં જ. . ૬૮ છે
प्रवृत्त्य वार्तास्वितरासु तत्फलं पुनः पुनः प्रश्नयति स्म भूधनः । यदा तदा स्यादपरं न धर्मतः शशाङ्कबिम्बादमृतादिवोदगात् ॥ ६९ ॥