________________
सर्ग १४ श्लो० ६३-६४]
हीरसौभाग्यम्
श्रुतोक्तयावद्वतपालने ददाप्यलं न किंचित्त तथापि शक्तितः । विधि विभhष तरेन तारको नदीमपीशस्तरणेऽम्बुधेन यः ॥ ६३ ।।
हे नरेन्द्र, श्रुते शास्त्रे उक्तः प्ररूपितः कथितः यावान् समग्रः यावत्परिमाणमस्येति यावान् । 'यावज्जनरञ्जनवती' इति नैषधे । 'समग्रलोकानां रजने प्रीणने व्रतमस्यास्तीति' इति तदवृत्तिः। विधिः कर्तव्यार्थोपदेश आचारो वा तस्य पालने आचरणे यदापि यद्यपि नालं नाह प्रभुः, तथापि तर्हि एषां शक्तितः स्वसामर्थ्यानुसारात् यादृशी व्रतपालनशक्तिस्तादृशमित्यर्थः । तु पुनः किंचित्किमपि अल्पमात्र देशकालानुरूपमाचारमाचरामि पालयामि । युक्तोऽयमर्थः । यस्तारकः स्वकलया जलातिक्रामकः अम्बुधेः समुद्रस्य तरणे भुजाभ्यामुत्तरणे नेशः प्रभुन स्यात् स तारकः नदी समुद्रापेक्षया स्वल्पपरिमितसलिलां सरित किं न तरेन्नोलवयेत् परपार न यायात् । अपि तु तरेदेव ॥ इति स्वस्य व्रतपालनसामर्थ्यमुक्तम् ॥
બ્લેકાર્થ
યદ્યપિ શાસ્ત્રોક્ત વિધિ પ્રમાણે વ્રત પાલનમાં હું અસમર્થ છું. છતાં શક્તિ મુજબ અંશતઃ તે પાલન કરું જ છું. તો ભુજાથી સમુદ્રનું ઉલ્લંઘન કરી શકતું નથી છતાં નદીને તે પાર કરે છે જ. . ૬૩
इदं निशम्य प्रमदं दधन्नपः प्रणीय गोष्ठीमितरां च तात्त्विकीम् । परीक्षितुं रत्नपरीक्षको मणीनिवेहमानः पुनरित्यवोचत ॥ ६४ ॥
नृपो राजा विभुं सूरिं परीक्षितुं गुरोः पूर्वोक्तव्रतानां परीक्षां कर्तुमीहमानो निजहूदिं पाञ्छनपुनर्व्याघुट्य इत्यग्रे वक्ष्यमाणप्रकारेणावोचत वदति । परीक्षितुं क इव । रत्नपरीक्षक इव । यथा माणिक्यपरीक्षाकारकः 'जवहरी' इति लोके प्रसिद्धः । स मणीन् परीक्षते रत्नगणान् परीक्षयति । अल्पानल्पं वा तन्मूल्य विधत्ते । नृपः किं कुर्वन् । इदं सूरिनिगदितव्रतस्वरूपं निशम्य आकर्ण्य प्रमदमानन्द दधदबिभ्रत् । किं कृत्वा। इतरां एतस्या वार्तायाः पृथग्वर्तिनी तात्विकी धर्मतत्त्वसंबन्धिनीं गोष्ठी प्रणीय कृत्वा ।
કા
આ પ્રમાણેની આચાર્ય ભગવંતની વાણી સાંભળીને અને અન્ય અન્ય ધર્મગોષ્ઠી કરીને હર્ષ ધારણ કરતા રાજા, રનની પરીક્ષાને અભિલાષી ઝવેરીની જેમ સૂરિજીની પરીક્ષા કરવાની ઈચ્છાથી બેટ છે ૬૪