SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ४९२ हीरसौभाग्यम् [सर्ग १४ श्लो० ६१-६२ हे साहे, संयतानां सर्वविरतिभाजां साधूनां व्रजः समुदाय इत्यमुना प्रकारेण पूर्वव्याणितस्वरूपान् सप्तसंख्याकान् व्रतान्नियमविशेषान् बिभर्ति धत्ते । किंभूतः । शिवश्रिया मोक्षलक्ष्म्या परिरम्भे आलिङ्गने लोलुपः लालसः । क इव बिभर्ति । वसुंधराभोग इव । यथा सप्तद्वीपाया वसुंधराया आभोगो विस्तारः । 'प्रपञ्चाभोगविस्तारः' इति हैम्याम् । सप्त लवण-क्षीर-दधि-धृत-सुरा-इक्षु-वारिनाम्नः अम्भसां प्रभून समुद्रान् । 'यादःस्रोतोवानंदीशः सरस्वान्' इति हैम्याम् । धत्ते । पुनः क इव । शिखीव । यथा वह्निः सप्त शिखा ज्वाला घत्ते । 'विभावसुः सप्तोदर्चिः स्वाहाग्राही' इति हैम्याम् । पुनः क इव । धुमणिरिव । यथा नभोरन्त सहप्ररश्मिः सप्त हयान स्वरथे सप्ताश्वान धारयति ॥ શ્લોકાઈ સમસ્ત પૃથ્વી જેમ લવણ, ક્ષીર, દધિ, ધૃત, સુરા, ઈક્ષુ અને વારિ એ સાત સમુદ્રને ધારણ કરે છે, અગ્નિ સાત વાલાને ધારે છે, અને સૂર્ય સાત અધોને વહન કરે છે તેમ મોક્ષલક્ષ્મીના લેપી સાધુ-પુરુષે ઉપર્યુક્ત સાત વ્રતોને ધારણ કરે છે. તે ૬૧ છે पुरातनैराचरितानि सूरिभिर्यथा तथा धर्तुमहं न तान्यलम् । मतङ्गजप्रक्षरधारणक्षमा मतङ्गजा एव न यत्तुरङ्गमाः ॥ ६२॥ हे नृपते, अहं स्वल्पमनःकायबलाकलितकलिकालोत्पन्नजनः तथा तेन प्रकारेण तानि सप्त व्रतानि धर्तु धारयितुं नालं न समर्थोऽस्मि । तथा कथम् । यथा येन प्रकारेण संपूर्णाद्वैतमनोवाक्कायबलशालिभिः सिद्धिसंप्राप्त्युचित चारुसंहननैः सुषमासमयसंप्राप्ता'वतारैः पुरातनैः प्राचीनेः सूरिभिराचार्यैरुपलक्षणादुपाध्यायगणाञ्चच्छेदकसाधुभिरप्या. चारितानि सम्यक्पालितानि यद्यस्मात्कारणान्मतङ्गाजानां संनाद्यानां समरोचितानां दन्तिनां प्रक्षराणां 'पाखर' इति लोकप्रसिद्धानां धारणे उद्वहने परिधाने वा मतङ्गजा एव क्षमाः समर्थाः स्युः न पुनस्तुरङ्गमाः स्वयोग्यप्रक्षरधारणे समथाँ अप्यश्वाः किं गजानामतिशायिभारदुर्वहां प्रक्षरां धारयन्ति । अपि तु न तथा । अहमपि पूर्वाचार्यानुष्ठितो. स्कृष्टानुष्ठान विघातुं समर्थोऽपि देशकालस्वमनोवपर्बलानरूपमना वह निन्द्यम् । किं च तस्य मूलत एव प्रक्षरैव न भाति तदग्रहणमयुक्तमेव यानेषु रत्नत्वात्प्रक्षरधारित्वाच्च अश्वाभिधानं न्याय्यमेव ॥ રાજન, પૂર્વાચાર્યોએ આ સાત વ્રતને જેવી રીતે આચર્યા હતાં તેવી રીતનું આચરણ કરવામાં હું શક્તિશાલી નથી. ખરેખર હાથીની અંબાડીને હાથીઓ જ વહન કરી શકે છે પરંતુ તેમાં અશ્વો અશક્ત છે. ૬૨
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy