________________
८८२
हीरसौभाग्यम्
[सर्ग १७ : श्लो० २०६-२०७
गर्जन्ति प्रतिमन्दिरं प्रमुदिता मिथ्यादृशः कौशिकाः .. श्रीमत्संघसरोजकाननमिदं म्लानि च धत्तेऽधुना । संप्राप्तप्रसराः स्फुरन्ति परितो नक्तंचरा दुईशो
यातेऽस्तं गवि हीरसूरितरणौ स्फूर्ति तमः शीलति ॥ २०६॥
गवि पृथिव्यां गगने च हीरसूरिहीरविजयसूरिरेव तरणिः सहस्रकिरणस्तस्मिन्नस्तं निधन द्वीपान्तरं च । यदुक्त सूक्तम्-'तेजोवसाने व्रजति द्वीपान्तरमहर्मणिः' इति । याते प्राप्ते सति प्रतिमन्दिर गृह गृह प्रति प्रमुदिताः प्रमोद प्राप्ताः सन्तः कौशिकाः ध्रुका इवेति गर्भितोपमा । उत्प्रेक्ष्यते वा-उलूका इव । मिथ्यादृशो मिथ्यात्वभाजो गर्जन्ति गरिव कुर्वते । यदथास्मन्मतोच्छेदकः कोऽपि नास्तित्पु(?)नाट्यन्ति। च पुनरधुना इदानींतनसमये इदं प्रत्यक्ष श्रीमच्चरणारविन्दचश्चरी कोपमं श्रीमत्पञ्चमहावाणुव्राप्रमुख गुणलक्ष्मीकलितं शोभायुक्त वा साधुसाध्वीश्रावकश्राविकारूचातुर्वर्ण्य संघः स एव सरोजकाननं कमलवन म्लानि संकोचं धत्तेऽञ्चति विच्छायीभूतमास्ते । पुनः संप्राप्तप्रसरा आसादितावकाशा लब्धप्रस्तावा नक्तंचरा राक्षसा इव चौरा इव वा कदाचारा दुईशो दुष्टदर्शनाः कुपाक्षिकाः कुमतानि परितश्चतुदिक्षु प्रसरन्ति सर्वतो भ्राम्यन्ति । पुनस्तमः शोकोऽज्ञानं पापं च । 'तमो गुणोऽपि ध्वान्तं तमः शोके तमिस्रे च । गुणभेदे विध्यान्तं पापे च' इत्यनेकार्थ तिलके । स्फूर्ति बलवत्तां प्रकटीभावं च शीलति भनते । रजनी विलसितमासीदिति श्रीमत्सु सत्सु चतुर्थारक एव केवलं संजातोऽभूत, अधुना पुनः पञ्चमारकः प्रादुरासीदिति ॥ इति विजयसेनसरेगुरौ दिव गते खेदवाक्यानि ॥
શ્લોકાર્થ
અરે, હીરસૂરિરૂપી સૂર્ય અસ્ત થવાથી ચારે દિશામાં ઘોર અંધકાર છવાઈ ગયો. મિથ્યા દષ્ટિરૂપ ઘુવડો હર્ષિત થઈને પ્રત્યેક ઘરમાં ગર્જારવ કરવાના. હવે ચતુર્વિધ સંઘ. રૂપી કમલવન કરમાઈ જશે. અને ચારે તરફ દૂર્વાદિઓરૂપી રાક્ષસને ઉપદ્રવ પ્રગટ थवानी. ॥ २०६॥
कातर्यमुत्सृज्य विधाय धैर्य दुःखं तनूकृत्य स कृत्यविज्ञः । गणं गणेन्द्रो गुणिनां वरेण्यः प्राचीनसूरीन्द्र इवावति स्म ॥ २०७
स गणेन्द्रो विजयसेनगणनायकः प्राचीनसूरीन्द्रः पूर्वाचार्य इव गणं तपागच्छम् अवति स्म पालयामास । किंभूतः । गुणिनां गुणवतां वरेण्यः श्रेष्ठः । किं कृत्वा । कातर्य कातरत्व