________________
Anna
सर्ग १७ ; श्लो० २०५]
हीरसौभाग्यम्
હે ગુરુદેવ, હે વૈરાગ્યવારિધિ, હે કરૂણાનિધિ પ્રમે, દુષ્ટ વિધિને વશ થઈને તમે અમને મૂકીને ક્યાં ચાલ્યા ગયા ? શું અમ શિષ્યા ઉપર જરા પણ દયા ના આવી. જે ૨૦૪
अद्यास्तं गतवान्सहस्रकिरणश्चन्द्रोऽपि तन्द्रां गतः
शुष्कः क्षीरनिधिविधेविलासितैमरविलीनः पुनः । भूमौ श्रीजिनसार्वभौमविभवभ्राजिष्णुतां बिभ्रति श्रीसूरीश्वरहीरहीरविजये गीर्वाणगेहं गते ॥२०५॥
- भूमौ निखिले मेदिनीमण्डले जिनाः सामान्यकेवलिनस्तेषां सार्वभौमाश्चक्रवर्तिनस्तीशंकरास्तविभवो मतिमाहात्म्यलक्ष्मीस्तेन भ्राजिष्णुतां शोभनशीलताम् । 'तिच्छयरसमोसरी' इति वचनात् । बिभ्रति धारयति श्रिया सूरिलक्षम्या युक्ता ये सूरय आचार्यास्तेषामीश्वराः स्वामिनः भट्टारकाः। एकेषां भट्टारकाणां बहवः सरिपदधारिणो भवेयुरिति अतिशोभामाजो वा भट्टारकास्तेषु हीरे रत्नमुख्यायमाने नायकमणौ 'नगीना' इति प्रसिद्ध हीरविजयसूरीन्द्र गीर्वाणगेह स्वर्ग गते सति एवंविधः समयः संजातः । अथ वा एवं ज्ञायते अस्मद्विधैः। अधैव सहस्रकिरणः सर्योऽस्त गतवान् जिनशासन दिवाकरोऽस्तमितः । तथा चन्द्रोऽपि सुधाकरोऽपि तन्द्रां निद्रां प्रमादम् । अत्र दीर्घनिद्रामित्यर्थः । गतः । 'जइ मेहु जम्पमाङ इमस्स देहस्स इमाइ रयणी' इति संस्तारकविधिवचनात् । तथा 'तन्द्रा निद्राप्रमादयो' इत्यनेकार्थतिलके । सर्वेषामप्यालादक-धेन जिनशासनचन्द्रः कारधर्म मुपेतः । पुनरद्य श्रीर. निधिः दुग्धार्णवः शुष्कः शोष प्राप्तः। असाधारणसिद्धान्तरहस्यक्षीरसमुद्रो निर्हरीभूतः। कैः। विधेर्दैवस्य विलसितेर्विजम्भितर्देव निर्माणैः । एतत्पदमत्र काव्ये चतुर्वप्यर्थेषु योज्यम् । पुनमॆरुलक्षयोजनमितो मन्दरगिरिविलीनो गलित्वा गतो विलय क्षय वा प्राप्तः। माहात्म्यमेरुपर्वतोऽपि विलीय गतः ॥
આ દુનિયામાં તીર્થંકરભગવંતની જેમ મહિમાની શોભા ધારણ કરતા જગદ્ગુરુ હીરલા શ્રી હીરવિજયસૂરિજીનું સ્વર્ગગમન થતાં ખરેખર, આ દુનિયામાંથી સૂર્ય અસ્ત થઈ ગયો, ચન્દ્ર નિસ્તેજ બની ગયે, ક્ષીરસમુદ્ર શેષાઈ ગયો, અને મેરૂપર્વત ઓગળી ગયે. ખરેખર! આ બધી દુષ્ટ વિધિની જ લીલા છે. ૨૦૫
हि० सौ० १११