SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ -naantICE सर्ग १७ : श्लो. १८५-१८६] हीरसौभाग्यम् ८६९ गीर्वाणा इव वासवप्रभृतयो नन्दीश्वरेऽष्टाहिकां निर्मायानुसमेत यौवतयुता निर्वाणकल्याणके ॥ १८५ ॥ ते समस्ता अपि संस्कारकारिणः उपलक्षणात्परेऽपि द्वीपोन्नतादिनगराधकास्ततः संस्कारकरणानन्तर चैत्ये जिनप्रासादे श्रीजिनिपुरस्तीर्थकृत्प्रतिमानां पुरस्तात् श्रीफलानि नालिकेराणि तथा तन्दुलाश्चोक्षा उपलक्षणादपरगोधूमयुगंधरीप्रमुखधान्य श्रेणी ढौकयित्वा ततस्तदनन्तर च संस्तुत्याष्टस्तुतिभिर्देववन्दनां विधाय मध्ये अजितशान्तिस्तव प्रान्ते च बृहच्छान्तिप्रमुखस्तुतिं कृत्वा ततस्तस्मादनु पश्चात् प्रणिपत्य । प्रणामस्तु भक्तिसेवातः । अत एव कारणात्ते किंभूताः । भक्तिभरिताः सेवासम्त्या व्याप्ताः सन्तो नमस्यित्वा आत्मनां स्वेषां स्वेषां गृहान् जग्मुर्गताः । ते किंभूताः । अनु पश्चात् देवगृहागमनानन्तर समेत समागत यद्यौवत युवतीसमूहस्तेन युताः सहिताः । के इव । गीर्वाणा इव यथा वासव प्रभृतयः पुरंदरप्रमुखाश्चतुनिकायामराः निर्वाणनानि तीर्थकृतां मोक्षगमनाभिधाने कल्याणकसमये नन्दीश्वरेऽष्टमद्वीपे अष्टाहिकां स्वस्वजनरतिकरदधिमुखप्रमुखपर्वतप्रासादेष्वष्टाहि. कामष्टवासरी यावन्महोत्सवमतिशायिन मह निर्माय आत्मनां नगरभवनज्योतिर्विमानान बानव्यन्तरभवनवासिज्योतिष्कविमानवासिनश्चतुर्निकायिकाः सर्वे सुरा गच्छन्ति । तेऽपि किंविशिष्टाः । अनु पश्चात्पृष्ठे समेत समायात यद्यौवत स्वस्त्रनिकायकामिनीकदम्बक तेन कलिताः ॥ इति सूरिनिर्वाणप्रस्तावनम् ॥ જેમ તીર્થંકરભગવંતના નિર્વાણ કલ્યાણકમાં આવેલા આદિ દેવ દેવી છે નંદીશ્વર દ્વીપમાં અષ્ટાદિકામUત્સવ કરીને, પોતપોતાના સ્થાને જાય તેમ આચાર્યદેવના અગ્નિસંસ્કાર કરીને સર્વે શ્રાવકશ્રાવિકા એ જિનમંદિરમાં ભગવંતની પ્રતિમા આગળ શ્રીફળ અને અક્ષત આદિ ધાન્ય મૂકીને ભક્તિપૂર્વક નમસ્કાર તેમજ દેવવંદનરૂપ સ્તુતિ કરીને આચાર્યદેવના ગુણે સંભારતાં સૌ પિતતાના સ્થાને ગયાં. તે ૧૮૫ तस्मिन्नेव निशावसानसमये दिव्यश्रियं संश्रय न्साहिश्रीमदकब्बरावनिपतेः श्रीहीरसूरीश्वरः । प्राग्वाम्बद्ध इवाभ्युपेत्य सविधे प्राचीनरूपाश्चितो.. मित्रस्येव निजं धुलोकगमनं प्राक्स्नेहतः प्रोचिवान् ॥ १८६।। श्रीपार्श्वदेवलोकलम्या कलितो हीरविजयनामा सूरोणामाचार्यभट्टारकाणां मध्ये ठे इशिता औश्वर्यवान् भवतीति ईश्वरः प्राक् स्नेहतः प्राचीनमिलनसंजातप्रोतिप्रकर्षात कपापा
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy