________________
sunnerworwainsistor
हीरसौभाग्यम्
[सर्ग १७ : श्लो० १८३-१८४
ज्योतिःकुमारा इव तीर्थभर्तुः प्रज्वाल्य पूर्व ज्वलनं चितायाम् । सूरे शरीरस्य शरीरिणस्ते संस्कारमातन्बत चन्दनाद्यैः ॥ १८३ ॥
ते शरीरिणः श्राद्धजनाः सूरेः शरीरस्य चन्दनायैः श्रीखण्डागुरुचूककर्परकस्तूरिकाभिः कृत्वा । संस्कारं वह्निना संस्करण भस्मसाद्विधानमातन्वत चक्रुः । किं कृत्वा । पूर्व प्रथम चिताया ज्वलनमग्निं प्रज्वाल्य संधूष्योद्दीप्य वा । क इव । ज्योति कुमारा इव । यथा अग्निकमारास्तीर्थभत श्चितायां पुरं प्रदत्तादेशा नयननिःपहलबाष्पप्लवाः पूर्वज्वलन प्रज्वालयन्ति ॥
બ્લેકાથ
જેમ અગ્નિકુમાર દે તીર્થકર ભગવંતના શરીરને અગ્નિસંસ્કાર કરે તેમ ચોધાર આંસુ વહાવતા શ્રાવકોએ પ્રથમ અગ્નિ પ્રગટાવીને ચંદન, સૂઆ, કપૂર અને કસ્તૂરીઆદિ દ્રવ્ય વડે આચાર્યદેવના શરીરને અગ્નિસંસ્કાર કર્યો. મે ૧૮૩
सप्तसहस्राः सर्वाः संभूय ल्यारिका इह व्ययिताः। सप्तापि दुर्गतीरिव निषेधुमेतैः समुत्सुकितै ॥ १८४ ॥
तैः श्राद्धः पूजादीनां वरादीनां सर्वाः समस्ता अपि संभूय मेलयित्वा इह रिशरीरसंस्कारसमये सप्तसहस्त्रप्रमाणा ल्यारिका व्ययिता व्ययीकृताः । उत्प्रेक्ष्यते-सप्तसंख्या अपि दुर्गतीः नरकान्निषेधु निवारयितु समुत्सुकितैरुत्कण्ठितैरिव ॥ इति सरिशरीरसस्कारकरणम् ॥
શ્લોકાથે
શ્રાવકૅ એ અગ્નિસંસ્કારમાં ચંદન, વસ્ત્ર આદિ બધું મળીને સાત હજાર ત્યારી( રૂપાનાણું)ને વ્યય કર્યો. જાણે શ્રાવકો સાત પ્રકારની નરકરૂપ દુર્ગતિને નિવારવાને માટે ઉત્સાહિત બન્યા ન હોય. છે ૧૮૪
चैत्ये श्रीफलतन्दुलाञ्जिनपुरस्ते ढौकयित्वा ततः संस्तुत्य प्रणिपत्य भक्तिभरिता जग्मुर्ग्रहानात्मनाम् ।