________________
सर्ग १७ : श्लो० १७४-१७५]
हीरसौभाग्यम्
८६३
શ્લેકાર્થ
શ્રાવણ અને ભાદરવાની જેમ આંખમાંથી ચોધાર આંસુઓ વરસાવતે શ્રાવકવર્ગ આચાર્યદેવના શરીરને માંડવીમાં પધરાવે છે તેટલામાં- કે ૧૭૩ છે
विमानघण्टापटुनादसान्द्रध्वनत्सुघोषेव गभीररावा । घण्टावली तावददृश्यमानाप्यध्वानितादिध्वनदभ्रमार्गे ॥ १७४ ॥
तावता समयेन तस्मिन् समये वा अध्वानिताः कैश्चनापि मानवैरवादिताः करपि जनमात्ररताड्यमानापि स्वयमेवादृश्यमाना नापि केषांचिश्चक्षुर्गोचरे भवन्ती तादशीघण्टानामत्र मण्डले देवगृहे वादनवाचविशेषाणां द्वोपवन्दिरादौ च घटिकायामादिमानविशेषकृत्ये वादनीयानां 'घांट' इति प्रसिद्धनानाम् आवली श्रेणी अदिध्वनत गाढ शाखायते स्म । क्व । अभ्रमार्गे मेघाध्वनि व्योमाङ्गणे । किंभूता । गभीरो मन्द्रो रावो ध्वनिर्यस्याः। केव । विमानानां सौधर्मदेवलोकसंबन्धिनां द्वात्रिंशल्लक्षमितानां देवनिवसनकृते नगरूपाणां घण्टानामेकसमयदध्वनन्महदधण्टिकानां पटुभिरतिपञ्चविषयसुखसंलीनतया किमप्यन्यत्कत्याकृत्येष्वदत्तावधानानां देवानां स्वस्वामिकार्य निर्माणप्रगुणीकारणप्रवणः नादैः निःक्वाणः प्रकटध्वनिभिः सान्द्रध्वनतू बहलीभूतशब्दायमाना सुघोषा घण्टेव ॥ इति मण्डपिकाकरण सूरिशरीरशायनम् ॥
શ્લેકાર્થ સ્વર્ગલોકમાં રહેલા ગાઢ અને ગંભીર અવાજવાળા સુકાઘંટાની અવાજની જેમ આકાશમાં અદશ્યપણે ગંભીર અવાજવાળા ઘંટાએાના ઘંટાર થવા લાગ્યા અને પુષ્પવૃષ્ટિ થઈ. ૧૭૪ છે
वाद्योधमाद्यनिनदैर्जिनस्येवामुष्य निर्वाणमहं प्रणेतुम् । किमाहयन्तसिदशानशेषानादाय तां श्राद्धजनाः प्रचेलुः ॥ १७५ ॥
श्राद्धजनाः श्रावकवजाः तां मण्डपिकामादाय स्कन्धेषु समधिरोप्य प्रचेलः संस्कारभूमि प्रति प्रचलन्ति स्म । उत्प्रेक्ष्यते-वाद्यौघानां वादित्रसंदोहानां माधभिर्बहलीभवदभिः निनः शब्दैः कृत्वा अशेषान् सर्वानपि महेन्द्रप्रमुखान त्रिदशान देवान् किमावयन्त