________________
८६२
होरसौभाग्यम्
[ सर्ग १७ : श्लो० १७२-१७३
'कथीपो' इति प्रसिद्धाः । ते आदिमाः प्रथमा येषां तादृशैर्दिव्यैर्देवदुकूलोपमै वस्त्रैः कृत्वा श्राद्धा द्वीपोन्नतपुरश्रावकाः मुनीन्दोटरसरेमण्डपिकां मांडवो' इति प्रसिद्धां व्यधुश्चक्रिरे। के इव । महेन्द्रा इव । यथा पुरंदरा आप्तभर्तुः तीर्थकरस्य शिबिकां याप्ययान विदथपे ।।
શ્લેકાર્થ
જેમ ઈન્દ્રો તીર્થકર ભગવંતની શિબિકા બનાવે તેમ બે હજાર રૂપાનાણુ વડે ખરીદેલા કથીપાઆદિ દિવ્ય વચ્ચેથી શ્રાવકે એ આચાર્ય દેવના દેહ માટે માંડવી બનાવી.
છે ૧૭૧ છે
ते ल्यारिकाभित्रतिपस्य सार्घसहखयुग्मप्रमिताभिरङ्गम् । अपूपुजन्भक्तिभरोल्लसन्तो जिनेशितुर्मूर्तिमिव प्रसूनैः ॥ १७२ ॥
ते श्राद्धाः सहार्धेनवर्तते तत्सार्धम्, सहस्रयोदशशत्योर्युग्म युगलम, साधं च तत्सहः संयुग्म च । तेन प्रमिताभिः प्रमाण प्रापिताभिः पञ्चतिशतिशतप्रमाणाभिर्ध्या रिकाभिः कृत्वा व्रतिपस्य सूरेः अङ्ग शरीरमपुजन्नर्चयन्ति स्म । कामिव । मूर्ति मिव । यया श्राद्धा जिनेशितुस्तीर्थकरस्य प्रतिमा प्रसूनैः कुसुमैः पूजयन्ति । किंभूता। भक्तेः सेवासक्तेः भरे. णातिशयेनोल्लसन्तः रोमाञ्चकञ्चुकीभवन्तः ॥
કલેકાર્થ
જેમ પુયોથી જિનેશ્વર ભગવંતની મૂર્તિની પૂજા કરાય તેમ ભક્તિભરથી ઉલ સિત બનેલા શ્રાવકે એ સવા બે હજારની ત્યારી(રૂપાનાણા )થી આચાર્ય દેવની અંગપૂજા કરી. મે ૧૭૨ છે
नभोनभस्याविव निःसरद्भिः पयःप्रवाहैर्नयने वितन्वन् । यावज्जनो मण्डपिकाममुष्यालंकारयामास शरीरयष्टया ॥ १७३ ॥
जनः श्राद्धलेोकः यावद्यावता समयेन अथवा यस्मिन् समये अमुष्य स्वर्गतस्य सरेः शरीरयष्टया तनूलतया कृत्वा मण्डपिकामलंकारयामास भूषयति स्म । वसनाधभूषितायां मण्डपिकायां सूरिशरीरं शाययति स्मेत्यर्थः । जनः किं कुर्वन् । नयने स्वनेत्रनभोनभस्याविध श्रावणभाद्रपदाविव वितन्वन् विदधत् । कैः। निःसरद्भिर्दुःखप्रकर्षा विरलधारनिवहनिःसरद्भिः पयःप्रवाहैर्बाष्पजलप्लवैः ॥