________________
सौभाग्यम्
[ सर्ग १४ श्लो० ५८-५९
वक्त्रकुहरे वरं झम्पापाते। ज्वलदनलकुण्डे विरचितः । वरं प्रासप्रान्तः सपदि जठरान्तर्विरचितो न जन्यं दौर्जन्य ं तदपि विपदां सद्म विदुषाम् ||' इति । किं कुर्वन्तः । यतिवन्मुनय इव । निशि रात्रौ जलाशने पानीयान्ने त्यजन्तो मुञ्चन्तः न भुजन्तः पिबन्तश्च ॥
શ્લાકા
હે રાજન્, જેમ ન્યાયનિષ્ઠપુરુષ મદિરાપાન કરતા નથી તેમ સાધુએ રાત્રિભાજન કરતા નથી. ખરેખર રાત્રિભાજી મનુષ્યાથી પક્ષીઓ શ્રેષ્ઠ છે કે જેએ સાધુઓની જેમ રાત્રે જલપાન પણ કરતા નથી. ૫ ૫૮૫
४९०
गवामवशं भुवनोपकारिणं महस्विनं श्रीजिनपादसेवितम् । अवेत्य मित्रं विधुरं विधीयतेऽशनादि यत्सा कथमौचिती सताम् ॥ ५९ ॥
I
हे साहे, गवामधीशं राजानं पतिं भास्करं धेनूनामधीशं कृष्णं नन्दगोपाङ्गजत्वाद्गो. कुलवासित्वाद्व्रजनाथत्वाच्च गवां वाचामधीशं वागीशत्वाद्गुरुं वाचस्पतिमध्येतार विधुरमस्तप्राप्तं मृतम् । 'दिष्टान्तोऽस्त' कालधर्मः' इति हैम्याम् । अवेत्य ज्ञात्वा यदशनादि भोजन प्रमुखं रङ्गसुखकारणं विधीयते क्रियते सा सतामुत्तमानां कथमौचिती केन प्रकारेण योग्यता । अपि तु नैव । किंभूतस्य । भुवनोपकारिणः । जगतो भूलोकस्य पाल - नादुपकारको राजा द्यावापृथिव्योरुयोतकर्तृत्वात्सदसन्मार्गप्रकाशत्वान्मित्रत्वाश्चोपकर्ता भास्वान् जगदुपद्रवकृद्देत्यनिवारकत्वात्पालकत्वात्सृष्टेरुपकर्ता कृष्णः अज्ञानान्धकारच्छेतृत्वात् ज्ञानविवेकदायकत्वाद्गुरुः । पुनः किंभूतम् । महस्विन प्रतापवन्तं नृपं किरणमालिन भानुमुत्सववन्तं कृष्णं विद्यावत्त्वात्सर्वदाप्युत्सववत्वाद्गुरुः । अद्याप्युत्सवानां जायमानत्वेन विष्णोः । ' एनं महस्विनमुपैहि सदारुणोच्चैः' इति नैषधे । महस् शब्दः सकारान्तोऽप्युत्सववाची वर्तते । 'महेस्तेज उत्सवश्च' इति तद्वृत्तिः । पुनः किंभूतः । श्रिया चतुखिंशदति शयलक्ष्म्या तस्याः कादाचित्कत्वेन सदा केवलोत्पत्तिं मर्यादीकृत्य महानन्दनगरावाप्तिपर्यन्तमष्टमहाप्रातिहार्यलक्ष्म्या युक्तो जिनस्तीर्थकृदन्यतरः श्राद्धत्वेन तं सेवते इत्येवंशीलः नृपः, तथा श्रिया पाथोधिपुत्र्या युक्तस्तस्याः पतित्वाल्लक्ष्मीयुक्तत्व जिनो विष्णुस्तत्पदसेवितं विष्णुपदे व्योम्नि स्थितिमत्त्वेन भानुः कमलाकलितकुण्ठवासिनः समुद्रशायिनो जिनस्य वैकुण्ठस्य पादमंशं शीलत्येवंशील कृष्णस्यांशावतारत्वेन न सर्वावतारित्वं किं तु दशानामप्यंशावतारित्वमेव । गुरोबृहस्पतेः स्वर्गस्थायुकत्वेन निजकृष्णस्य सेवनं सुकरमेव । गुरोस्त्वन्यतरः कश्चिज्जिनो बौद्धो विष्णुरहेन्वा एतेपा मन्यतरशासनस्थत्वात् । पुनः किंभूतम् | मित्रं संखाय राजन्यपि कुत्रचित्सेवकादौ हितान्वेषित्वेन मत्स्य संभाव्यते न सर्वेऽपि नृपाः कृतघ्नाः । यदुक्तम्- 'सुहृदि निरन्तरचित्ते गुणवति भृत्ये प्रियासु नारीषु । स्वामिनि सौहृदयुक्ते निवेद्य दुःखं सुखीभवति ||' इति सूत्रोक्तत्वात् । तथा भास्वान्मित्त्र