________________
४८८
हीरसौभाग्यम्
[सर्ग १४ श्लो० ५४-५६
કાથ
હે રાજન, જે પુરુષ અથવા સ્ત્રી મન વચન કાયાથી બ્રહ્મચર્યનું પાલન કરે છે તેની આગળ મદોન્મત હાથી બકરા તુલ્ય બને છે, સમુદ્ર ખાચિયારૂપ સિંહ હરણીયા સમાન, ભયંકર વિષધર ફૂલની માળા સમાન, રાત્રિ દિવસ સમાન (પ્રકાશરૂપ), ભયંકર રણભૂમિ મહોત્સવ સમાન અને મેરૂપર્વત પાષાણુના ટુકડા સમાન બને છે. કે ૫૪
परिग्रहः संयमिनापवादवत्रिधापि नाङ्गीक्रियते कदाचन । तमस्तमीनामुदयादिवोरगाद्विषं यतो दोषभरः परिस्फुरेत् ॥ ५५ ॥
हे भूपते, संयमिना चारित्रवता साधुना त्रिधापि मनोवचनतनुभिरपि अपवादोऽपयश इव । कदाचन कस्मिन्नपि प्रस्तावे सुखे दुःखे वा सुकाले दुःकाले वा सुखाजीविकायां कष्टाजीविकायां वा परिग्रहो धनधान्यक्षेत्रवस्तुसुवर्णरूप्यकुप्यद्विपदचतुष्पदलक्षणो नाङ्गीक्रियते नाद्रियते । यतो यस्मात्परिग्रहाद्दोषाणां निकेतानि दाक्षिण्यलोभाधपगुणानां भरो गणः परिस्फुरेत् । किमिव । तम इव । यथा तमीनां कृष्णपक्षक्षपाणामुदयात्प्रकटीभावात्परिभावावा तमो घरोऽन्धकार स्फुरेत् । परि समन्तात्सर्वविश्वान्तः स्फूर्तिमत्पृयात् । विश्व व्यापिस्फूर्तिमद्भवेत् । पुनः किमिव । विषमिव । यथा उरगाभुजंगमाद्गरलमाविर्भवेत् ॥
બ્લેકાર્થ
હે રાજન, રાત્રિથી જેમ અંધકાર અને સર્ષથી જેમ વિષ પ્રગટ થાય છે તેમ અનેક દેના ઉદ્ધવરૂપ પરિગ્રહના ભારને સંયમી સાધુએ કદી પણ અંગીકાર કરતા નથી. છે ૫૫
गिरीन्द्रमारोहति लङ्घतेऽम्बुधीन्प्रयाति जन्यं गहनं च गाहते । असूंस्तृणानीव सृजेनिजाञ्जनस्तदुल्लसल्लोभविजम्भितं विभो ॥ ५६ ॥
हे विभो हे साहे, यजनो लोकः गिरीन्द्रं तुङ्गशैलमारोहित पर्वतोपरितलशिखरशिखायां चढति, पुनर्यदम्बुधीन समुद्रान लवते यानपात्रादिभिः कथं कथंचिदतिकामति अपारं पारावारं प्रतीर्य पारपारं याति । पुनर्यज्जन्यं दुराकजनीयरणाङ्गणं प्रयाति प्रविशति । च पुनर्गहनं भयानकं कानन कान्तारं गाहते सर्वतः परिभ्राम्यति । पुनर्जनो निजानात्मीयानसन्प्राणान् तृणानीव तृणप्रायान् सृजेत् कुर्यात् । हे राजन्, तत् पूर्वोक्त सर्वमपि उल्लसन् वर्धमानः प्रकटीभवन् वा यो लोभस्तृष्णा तस्य विजृम्भितं विस्फूजितं प्रभावः ॥ इति पञ्चमं व्रतम् ॥