________________
सर्ग १४ श्लो० ५२-५४]
हीरसौभाग्यम्
४८७
-
_हे साहे, यः पुमान सिशिखायाः खङ्गधाराया उपमा सादृश्यं यस्य तादृशं व्रतं ब्रह्माचर्यमदधाद्वारयति स्म तस्य पुंसः सुरा देवाः पुरःसरा अग्रगामिनस्तदने पदातिवग्दच्छन्ति । पुनर्मरुग्दवी कामधेनुः गृहप्रसूता क्रीतगृहीता वा गौरिव गृहाङ्गणे तिष्ठेत् । मरुन्मणिश्चिन्तारत्नं तस्या पाणितले करकोडे हस्तेलिकायामेव वसेत् । पुनः सुरद्रुमः कल्पवृक्षः पुरः पुरस्तात् च्छायाकारक इव तिष्ठेत् । पुनः मरुद्धटः कामकुम्भः निकटे समीपप्रदेशे पानीयपायक इव तिष्ठेत् । पाश्ववर्तीव वा स्यात् । पुनर्भुवनत्रयीश्रियः त्रैलोक्यलक्षम्यः स्वयंवरा आत्मभिरेवागत्य तं वृण्वते । पुनः दक्षिणोऽपसव्यप्रदेशे आवर्ता यस्य स चासौ वारिजश्च । मध्यमपदलोपी समासः । दक्षिणावर्तशङ्ख: प्रदक्षिणोऽनुकूलः मागितं विनैव सर्व समीहितं पूरयति । 'कम्बुस्तु वारिजः' इति हैम्याम् । खला द्विजिह्वा दुर्जनाः सखायो मित्राणि भवन्ति । च पुनः शेवधिर्निधानं सविधे पृष्ठे अनुलग्नमिवायाति च । पुनश्चित्रलता चित्रकवल्ली न चित्रकृत् । अद्रष्ट्रीणामाश्चर्यकारिणी स्यात्तस्य तु पदे तत्प्राप्तित्वेन न विस्मयविधायिनी। तद्गृह एवोद्गमनत्वेन वा भवेत् । च पुनः सिद्धयः लघिमा विशिता-ऐश्वर्य-प्राकाम्य-महिमा-अणिमा-यत्र-कामावसायित्वम् प्राप्तिः-इत्यैश्वर्यम् । अष्टावपि सांसारिका महासिद्धयः । करे हस्ते मनोनुगामिन्यः हस्ततलस्थायिन्यो वा । महत्त्वादबहुवचन्नम् । सिद्धयो मुक्तयोऽपि हस्ते ॥ युग्मम् ।
શ્લોકાઈ હે રાજન, જે પુરુષ, તલવારની ધાર સમાન બ્રહ્મચર્યવ્રતને ધારણ કરે છે તેની આગળ આવીને દેવે પણ નમસ્કાર કરે છે, કામધેનુ ઘરના આંગણામાં ફરે છે, ચિંતામણિ રન હથેળીમાં રહે છે, કલ્પવૃક્ષ આગળ ને આગળ છાંયે કરે છે, કામઘટ સમીપે રહે છે, ત્રણે લેકની લક્ષ્મી સ્વયં આવીને વરે છે, દક્ષિણાવર્તી શંખ પ્રદક્ષિણું કરે છે, દુજનો મિત્રો બને છે, નવનિધાન પાછળ ને ! છળ ફરે છે, તેને ચિત્રાવલિ આશ્ચર્ય પમાડતી નથી, અર્થાત્ સર્વ પ્રકારની સિદ્ધિઓ કરતલમાં કીડા કરે છે. | પર ૫૩ છે
गजोऽप्यजो गोष्पदमम्बुधिर्मगो मृगाधिपः स्रग्भुजगस्तमी दिनम् । रणः क्षणवाल्पगिरिमरुग्दिरिस्त्रिधापि यो ब्रह्म बिभर्ति भूपते ॥ ५४ ॥
हे भूपते, यः पुमान् महिला वा त्रिधापि मनोवाकायब्रह्म शीलवतं परनारीसहोदरतां बिभर्ति धत्ते, तस्य पंसस्तस्याः स्त्रियो वा गजो मदोद्धरसिन्धरोऽपि अजश्छागप्रायः स्यात् । पुनरम्बुधिः समुद्रोऽपि गोष्पदं गोखुरोत्खातभूमिस्थजलमिव तेन तया वोल्लङ्घयते । पुनमृगाधिपः पञ्चाननोऽपि मृगो हरिण इव तस्या दूरं पलायते । पुनर्भुजगो विषधरोऽपि तेन स्रगिव कुसुममालिकेव तया चाकरे गृह्यते । तमी सान्धकारा रात्रिर्दिन मिव तस्थ तस्या वा जायते । रणो घोरोऽपि संग्रामः क्षण उत्सव इव बिभर्ति । पुनर्मरुग्दिरिः सुरा चलोऽपि अल्पगिरिः किंचिदुच्चपाषाणभूमिरिवाबरुह्यते । इति चतुर्थ ब्रह्मव्रतम् ॥