SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ४८६ हीरसौभाग्यम् [सर्ग १४ श्लो० ५०-५३ जीवितम् ॥' इति वचनात् । किंभूतानां योगिनाम् । शमेन शान्तभावेनाद्वैतमसाधारणं यत्सुखं सातं तस्यानुङ्ग आस्वादो विद्यते एषाम् । किंभूता वशा। कृतप्रदोषा कृता उत्पादिताः प्रकर्षेण दोषा दम्भादयः । स्त्रीजातौ दाम्भिकता। तथा 'स्रीभ्यः शिक्ष्यते कैतवम्' इत्या. दिसूक्तोक्तः विविधा अपगुणा यया । केव । पितृमृरिव । यथा संध्या कृतः प्रदोषो यामिनीमुखं यया तादृशी स्यात् । पुन: किंभूता। चला अतिचञ्चलस्वभावा। केव। अशनिरिव । अत्र इवशब्दो लालाघण्टान्यायेन उभयत्रापि योज्यते । ततो यथा अशनिविद्युदतिचपला आकालिकी शतदा । 'चञ्चला चपलाशनिः' इति हैम्याम् । 'अशनिवज्रविद्युताः' इत्यनेकार्थः। पुनः किंभूता। मदनावगाहिनी। मदनं प्रबलकंदर्पमवगाहते । “फुफुमाग्निसनारी' इति वचनात् । धारयतीति । किंवत् । वनीवत् । यथा कान्तारं मदननामानं द्रुमम् । 'मीढुल' इति प्रसिद्धं लोके । अवगाहते बिमतीति । 'स्ववनीसंप्रवदत्पिकापि का' इति नैषधे । पुनः किंभता । जिह्मगामिनी जिा वक्रं गच्छतीत्येवंशीला। केव । महेलेव । यथा अहे जगमस्य महेला वनिता भुजंगी कुटिलचारिणी भवेत् । पुनः किंभूता । निम्नं नीचेहींनतमकर्मभिगच्छति विचरतीत्येवंशीला । अथ वा निम्नेषु नीचजातिषु गच्छन्ति सङ्ग कुर्वन्तीत्येवंशीला । 'कामिन्यो नीचगामिन्यः' इति वचनात् । नीचसक्ताः प्रायः स्युः। केव । वधूरिव । यथा पयोधेः समुद्रस्य वधूः पत्नी नदी निमगा नीचैर्वहा जलस्य निम्नगतित्वान्नाम्नापि च । पुनः किंभूता। अधैः पापकर्मभिः कृत्वा भवपद्धतेः संसाररचनाया अथ वा संसारपम्परायाः संसारमार्गस्य वा। ‘पद्धतिः पथि पक्तौ च' इत्यनेकार्थः । एतेषां समीचीना पद्धतिरित्यपि रूढया दृश्यते । पद्धतिराचरणं रचनापीति । तस्या विवधिनी विशेषेण वृद्धिकरण च तत्र विवधिनी। केव । मेघमालिकेव । यथा कादम्बिनी जलैः पानीयैः वहाया नद्या वृद्धिकारणी। यदुक्तम्-'वर्षानदीनां पतिरङ्गनानामर्थो नराणामृतुराद तरुणाम् । स धर्मचारी नृपतिः प्रजानां लोकागतं यौवनमानयन्ति ॥' इति ॥ युग्मम् ॥ શ્લેકાર્થ હે રાજન, સંધ્યા જેમ દેષા (ાત્રિ)ને કરનાર છે તેમ દેષયુક્ત, વિધતની જેવી ચપળ, અટવીને જેમ મદન-(મીલ)-કામને ધારણ કરનારી, નાગણ જેવી કુટિલ, નદી જેવી નીચગામિની અને મેઘ જેમ નદીઓના જલમાં વૃદ્ધિ કરનાર છે તેમ પાપિ વડે સંસારની વૃદ્ધિ કરનારી સ્ત્રી, શાંતરસમાં નિમગ્નગીઓના મનને વશ કરી શકતી નથી. ૫૦ છે કે પ૧ છે पुरःसरास्तस्य सुरा मरुद्रवी गृहाङ्गणे पाणितले मरुन्मणिः । पुरः सुरद्रुनिकटे मरुद्वटः स्वयंवराः स्युर्भुवनत्रयीश्रियः ॥ ५२ ॥ प्रदक्षिणा दक्षिणवारिजः पुनः खलाः सखायः सविधे च शेवधिः । न चित्रकृच्चित्रलता च सिद्धयः करेऽदधायोऽसिशिखोपमं व्रतम् ॥ ५३॥
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy