________________
८३४
सौभाग्यम् [ सर्ग १७ : श्लो० १२१-१२२
[वाचंयमेन्दुर्निजमायुरल्पं ] विदांचकाराथ हृदा तदानीम् । स्वेनोपचेतुं पुनरेष पुण्यमगण्य मैच्छद्रविणं धनीव ॥ १२१ ॥
अथ चतुर्मासक स्थितेरनन्तर' तदानीं तस्मिन् प्रस्तावे तच्चतुर्मासक एव वाचंयमेन्दुविजयसूरिः हृदा कुशाग्राग्रिम मतज्ञानवता हृदयेन कृत्वा निजमात्मीयमायुर्जीवितकालमल्पं स्तोकं विदांचकार अज्ञासीत् ज्ञातवान् । पुनरित्यन्योक्तिः । एष सूरिः स्वेनात्मना अगण्यमपरिमितं स्वर्गापवर्गसाधकं पुण्यं सुकृतमुपचेतुं पुष्टं कर्तुमैच्छाञ्छति स्म । क इव | धनीव । यथा व्यवहारी अगण्यं गणयितुमशक्यं गणितं द्रविणं धनमुपचेतुमिच्छति ॥
લેાકા
છેલ્લા ચાતુર્માંસમાં જ આચાય દેવે કુશાગ્રબુદ્ધિથી પોતાના અલ્પ આયુષ્યને જાણી લીધુ' હતું. તેથી જેમ વ્યવહારી અગણિત દ્રશ્યને એકઠું કરવા ઇચ્છે તેમ આચાર્ય દેવ પણ જાણે પાતાનું અપરિમિત પુણ્ય એકઠું કરવા ઇચ્છતા હતા. ॥ ૧૨૧ ૫
संलेखनां तत्र तपोविचित्रां स वृत्रशत्रुर्व्रतिनां वितेने । विधित्सयेवोत्मुकितोत्तरात्मशुद्धेर्बहिः स्नानमिवाङ्गशुद्धेः ॥ १२२ ॥
asोन्नतनगरे सव्रतिनां वृत्रशत्रुर्वाचंयमवासवो हीरविजयसूरिस्तपोभिरेकाशन निविकृतिकाचा म्लचतुर्थषष्ठाष्टमादिभिः कृत्वा विचित्रां नानाविधां संलिख्यन्ते संतक्ष्यन्ते तुच्छी क्रियन्ते स्वकर्माण्यनयेति संलेखना तपोनुष्ठान विशेषस्तां वितेने करोति स्म । उत्प्रेक्ष्यते - अन्तरात्मनो जीवस्य शुद्धेर्निर्मलतायाः कर्मराहित्यस्य विधित्सया कर्तुमिच्छया उत्सुकत उत्कण्ठित इव । किमिव । बहिःस्नानमिव । यथा कश्चिदङ्गस्य बाह्यशरीरस्य शुद्धेर्विशुद्धताया विधित्सया विधातुमिच्छयोत्सुकिती बहिःस्नान जलादिभिस्त्वङ्मला पहसेवन वितनुते ॥ इति संलेखना ||
શ્લેાકાથ
જેમ કેાઈ માણસ શરીરની શુદ્ધિ માટે સ્નાન કરવાને ઇચ્છે તેમ આચાય દેવે અંતરઆત્માની શુદ્ધિ માટે આયંબિલ, ઉપવાસ, છઠ્ઠ, અઠ્ઠમ આદિ તપશ્ચર્યા દ્વારા સંલેખના
६१. ॥ १२२ ॥