________________
८३२
हीरसौभाग्यम्
[सर्ग १७ : श्लो० ११८-११९
धात्री वसुंधरा पवित्रां पावनां सृजतः कुर्वतः पादचारेण चरतः अस्य सूरेः पादन्यासे चरणयुगलस्थापनस्थाने प्रायो बाहुल्येन भव्यैः श्राद्धवगैः दुकूलानि क्षौमानि विविधदेशवासांसि वा अध्रियन्त पादाधः स्थाप्यन्ते स्म । कस्येव । तीर्थाधिरामस्येव । यथा धरित्री पवित्रां विदधानस्य भूमण्डले विहार कुर्वतः श्रीभगवतश्चतुनिकायसुरैः भवनपति-व्यन्तर-ज्योतिष्क-विमानवासि देवैः स्वर्णसरोरुहाणि कनककमलानि पादन्यासे चरणारविन्दयोस्तले विधीयन्ते ॥
શ્લોકાથી
જેમ ભૂમંડલ ઉપર વિહાર કરતા શ્રી તીર્થકર ભગવંતના ચરણકમલની નીચે ચાર નિકાયના દેવ નવ સુવર્ણ કમલેને સ્થાપન કરતા હતા તેમ પૃથ્વીતલને પવિત્ર કરતા આચાર્યદેવના ચરણકમલને સ્થાપન કરવાના સ્થાને ભાવિકે રેશમી વસ્ત્રો પાથરતા ता. ॥ ११७ ॥
स्तम्भादितीर्थे जलदागमेऽस्मिन्स्थिते कदाचिद्भविकत्रजेन । कोटिय॑येऽसृज्यत टङ्ककानां श्रीविक्रमाम्भोरुहबन्धुनेव ॥११८ ॥
कदाचित्कस्मिन्नपि जलदागमे वर्षाकाले स्तम्भ इति पदमादौ यस्य तादृशे तीर्थे स्तम्भतीर्थे 'खभाति' इति लोकप्रसिद्धनामनि अस्मिन् मुनीन्द्र चतुर्मासीमासीने सति भविकव्रजेन अर्थात् स्तम्भतीर्थादिसंघलोकनिकरण टङ्ककानां गुजरजनपदप्रसिद्धानां नाणकविशेषाणां कोटिरेका कोटिय॑ये दानेऽसृज्यत व्ययीक्रियते स्म । केनेव । श्रीविक्र. माम्भोरुहबन्धुनेछ । यथा श्रीमविक्रमादित्येन एकस्मिन् वारके दाने वा कोटिः कनकटङ्ककानाम् । सुवर्णकानामित्यर्थः । दाने दीयमाना आसीत् । प्रतिश्लोक काव्य गाथां च प्रायो जनानां कोटिदातासीत्, न न्यूनमधिक बहु ॥
પ્લેકાર્થ
રાજા વિક્રમાદિત્ય એક વખતના દાનમાં એક કોડ સોનૈયાનું દાન કરતા હતા, તેમ આચાર્યદેવના ખંભાતના ચાતુર્માસમાં ખંભાતના સંઘે એક કોડ ટેક(ગુજરાતમાં પ્રસિદ્ધ નાણું)ને વ્યય કર્યો હતે. છે ૧૧૮
प्रेक्ष्य प्रियं शक्रबशा अहिल्यासक्तं क्षितावक्षमया किमेताः । मृगीदृशो न्युग्छनकानि यस्य प्रायो व्यधू रूपकनाणकेन ॥ ११९॥