________________
सर्ग १७ : श्लो० ११६-११७]
हीरसौभाग्यम्
यस्मिन् वरिशके भुवं पृथिवीपीठ पुनाने पवित्रीकुर्वाणे सति अर्बुदाद्रिः हिमाचलनन्दन गिरिः वृषभदेव वासुपूज्यारिष्टनेभिमहावीरवर्ज विंशतितीर्थकृतां निर्वाणभूमाकल्या. णकपावनीकृत समेताचलः शत्रुजयो विमलाचलः रैवतो गिरिनारगिरिः एतत्प्रमुखेषु तीथेषु पाण्डववत्पाण्डुनन्दना इव त्रिकेण त्रयेणाधिकानि व्युत्तराणि त्रीणि शतानि संघा. धिपाः संघपतयः अभूवन समजायन्त ॥
બ્લેકાર્થ
આચાર્યદેવે પિતાના વિહારથી પૃથ્વીને પાવન કરતાં અબુદાચલ, સિદ્ધાચલ અને સમેતશિખર આદિ તીર્થોના, પાંડવોની જેમ ત્રણસો ને ત્રણ (૩૦૩) સંઘપતિઓ બનાવ્યા. અર્થાત તેઓના ઉપદેશથી તેટલા સંઘ નીકળ્યા. છે ૧૧૫
आत्मा भृतो येन जिनेश्वराद्रितीर्थादियात्रोद्भवपूर्णपुण्यैः।
प्राक्श्रृङ्गिशृङ्गागमनोद्गतांशुभारैरिवाम्भोरुहिणीवरेण ॥ ११६ ॥ येन भगवता जिनेश्वराद्रिः शत्रुजयशैल: । 'पञ्चाशदादौ किल मूलभूमेर्दशार्श्वभूमेरपि विस्तरोऽस्य । उच्चत्वमष्टै तु योजनानि मान वदन्तीह जिनेश्वरानेः॥' इति नगरपुराणोतमन्तर्वाच्यान्तर्गतमत्र लिपीकृतमस्ति । स एव तीर्थः सिद्धिगमनस्थानम् । तीर्थशन्दः पुंनपुंसकलिङ्गे । स एव तदेव था आदौ येषां तेषां यात्रा दर्शन स्पर्शन तर्हतां द्रव्यभावस्तवार्चनातपोविधानादिकाः क्रियास्ताभ्यः उद्भव उत्पत्तिर्येषां तादृशः पूर्णैरन्यूनः पुण्यैः सुकृतैः कृत्वा आत्मा स्वप्राणी भृतः संपूरितः । केनेव । अम्मोरुहिणीवरेणेव । यथा भानुमालिना प्राश्रिङ्गी पूर्वाचलः तस्य श्रङ्गे शिखरे आगमनेनोपनमनेन उद्गताः प्रकटीभूताः अंशुभाराः किरणनिकराः सहस्त्रसंख्यकराः ऋतुभरात्षोडशशतकरा अपि यस्तैः । आत्मा भ्रियते । उदयानन्तरमेव किरणबाहुल्यदर्शनादिशयमुत्प्रेक्षोपमा वा ॥
શ્લેકાર્થ
જેમ સૂર્ય પૂર્વાચલના શિખર ઉપર પ્રગટ થયેલાં કિરણોના સમૂહથી સ્વયં ભરાય તેમ અચાર્યદેવ શ્રી શત્રુંજય આદિ તીર્થોની યાત્રા કરવાથી ઉત્પન્ન થયેલા સંપૂર્ણ પુણ્ય વડે સ્વયં ઓતપ્રેત થયા, અર્થાત્ પુણયથી પરિપૂર્ણ બન્યા. મેં ૧૧૬
धात्री पवित्रां सृजतोऽस्य पादन्यासे दुकलान्यध्रियन्त भव्यैः । तीर्थाधिराजस्य चतुर्निकायसुरिव स्वर्णसरोरुहाणि ॥ ११७ ॥