________________
-
-
होरसौभाग्यम्
[सर्ग १७ : श्लो० ११३-११४-११५
यस्योपदेशाबहवो विहाराः संजज्ञिरे मन्दिरचैत्ययुक्ताः । त्वष्ट्रा क्षितौ वस्तुमिवामृतस्व:श्रीभिव्यधाप्यन्त विलाससोधाः ॥११३॥
.. यस्य प्रभोरुपदेशाबहवोऽनल्पसंख्याका विहारा जिनप्रासादाः संजज्ञिरे। किंभूताः । मन्दिरचैत्ययुक्ताः गृहदेवतावसरसहिताः । 'देहरासर' इति प्रसिद्धिः। एतावता गृहचैत्यान्यप्येकान्यासन् । उत्प्रेक्ष्यते-अमृतस्वःश्रीभिरपवर्गस्वर्गलक्ष्मीभिः कर्तीभिः क्षितौ भूमण्डले वस्तु निवास कर्तु त्वष्ट्रा विश्वकर्मणा क; विलाससौधा लीलागृहा व्यधाप्यन्त कारिता
લેકાર્થ
આચાર્યદેવના ઉપદેશથી સેંકડો જિનમંદિર બંધાવાયાં; તે જાણે બ્રહ્માએ પૃથ્વી ઉપર સ્વર્ગ અને અપવર્ગની લક્ષમીને વસવા માટેનાં કીડાગૃહે બનાવ્યાં ન હોય ! ! ૧૧૩ છે
पञ्चाशदर्हत्प्रतिमाप्रतिष्ठाः प्रभुः पृथिव्यामनुतिष्ठति स्म । दिशश्चतस्रोऽप्यपुनाद्विहारैः प्रभाप्रसारैरिव भानुमाली ॥११४ ॥
प्रभुः सूरिः अर्हत्प्रतिमानां शतसहस्रसंख्याकानां जिनबिम्बानां प्रतिष्ठा वासक्षेपाचनशलाकादिकादिक्रियाभिः प्रतिष्ठापनानि पञ्चाशत्संख्याकाः पृथिव्यां गुर्जरसौराष्ट्रमरुमेदपाटलाटमेवातकशावर्तादि मण्डलमूमण्डलमध्ये अनुतिष्ठति स्म कृतवान् । पुनश्चतस्रश्चतःसंख्याकाः पूर्वपश्चिमदक्षिणोत्तरसंज्ञा दिशो हरितो विहारस्वविचरणैः कृत्वा अपनात सिपीमा क इव । भानुमालीघ । यथा भास्थान प्रभाप्रसारः स्वकिरण विस्तारैः कृत्वा चतस्रोऽविदिशः पुनीते ॥ ..
લેકાર્થ
આચાર્યદેવે સેંકડે હજારોની સંખ્યામાં જિનબિંબની “અંજનશલાકા’ વિધિ કરી, અને ગુર્જર, સૌરાષ્ટ્ર, મારવાડ, મેવાડ, મહારાષ્ટ્ર આદિ દેશમાં પચાસ જિનચૈત્યેની પ્રતિષ્ઠાવિધિ કરી. જેમ સૂર્યનાં કિરણોને વિસ્તાર ચારે દિશાને પવિત્ર કરે તેમ આચાર્ય દેવે પિતાના વિહારથી ચારે દિશાઓને પવિત્ર કરી હતી. ૧૧૪
यस्मिन्पुनाने भुवमर्बुदाद्रिसमेतसिद्धाचलरैवतेषु । संघाधिपाः पाण्डववच्छतानि त्रीणि त्रिकेणाभ्यधिकान्यभूवन् ॥११५॥