________________
सर्ग १७ : श्लो० १११-११२ ]
हीरसौभाग्यम्
८२९
शीलं परिष्कारमिवोद्वहन्त्यः सर्वानुवादा इव चन्दनायाः। यस्याप्तवाङ्नासराजहंस्यः साध्व्यो बभूवुस्त्रिशतीमिताश्च ॥ १११ ॥
यस्य सरेस्त्रयाणां शतानां समाहारत्रिशती त्रीणि शतानि तया मिता: प्रमाणीकृताः साध्व्यो यतिन्यो बभूवुः संजाता. | किंभूताः । आप्तानां तीर्थकृतां वाग्वाणी सिद्धान्तः । 'आतोक्तिः समयागमौ' इति हैमीवचनात् । सैव मानस राजहंसनिवाससरस्तत्र खेलने राजहंस्यः। सिद्धान्तस्वाध्यायध्यानपरा इत्यर्थः । किं कुर्वत्यः । उद्वहन्त्यः उत्प्राबल्येन वहन्त्यो धारयन्त्यः । किम् । शील त्रिधापि ब्रह्मचर्यम् । कमिव । परिष्कारमिव आभरणमिव । 'परिष्कारा भरणे च' इति हैम्याम् । उत्प्रेक्ष्यते-चन्दनायाः चन्दनबालायाः सर्वानुवादा इव सर्वशीला गमादिकमनुवदन्ति अनुकुर्वन्तीति । चन्दनातुल्या इत्यर्थः ॥
શ્લોકાર્થ
શીલરૂપી અલંકારને ધારણ કરતી, તીર્થકર ભગવંતનાં શાસ્ત્રોરૂપી માનસરોવરમાં રાજહંસી સમાન, સ્વાધ્યાય-ધ્યાનમાં તત્પર તેમજ આર્યાચંદનબાળાની તુલનાને ધારણ કરતી ત્રણ સાધ્વીએ આચાર્યદેવની નિશ્રામાં હતી. જે ૧૧૧
बजे यतीनां विजयाद्यसेनप्रभोर्ददौ सूरिपदं य एकम् । नक्षत्रताराग्रहमण्डलेऽपि वेधा यथा राजपदं सुधांशोः ॥ ११२ ॥
यः सरिर्यतीनां व्रजे श्रमणानां गणे सत्यपि विजय इति पदमाद्य प्रथम यत्र तादृशः सेन एतावता विजयसेननामा प्रभुर्मुनिः स्वामी तस्य नान्यस्य एक रिपदमाचार्यपद ददौ दत्तवान् । यथा इवार्थे । क इव । वेधा इव । यथा ब्रह्मा जैनमते नक्षत्राणामष्टाविंशतिसंख्यानां ताराणां षट्षष्टिसहस्रकोटिकोट्यस्तथा पञ्चसप्ततिकोट्य एतावत्प्रमाणानां तारकाणां तथा ग्रहाणामष्टाशीतिप्रमितानां कलिकालनानि पञ्चमारके नराणामल्पायुष्ठान्नवानामेव स दिकानां मण्डले समूहे सत्यपि सुधांशोश्चन्द्रस्यैव एक राजपदं ददिवान् ॥ इति परिवारः॥
કાથી બ્રહ્માએ નક્ષત્ર, ગ્રહ અને તારાઓના સમૂહમાં જેમ એક ચન્દ્રને જ રાજપદ અર્પણ કર્યું તેમ આચાર્યદેવે વિશાળ સાધુસમુદાયમાં એક વિજયસેનસૂરિજીને જ આચાર્ય પદ અર્પણ કર્યું હતું. અર્થાત્ એક જ આચાર્ય હતા. જે ૧૧૨ !