________________
८२०
हीरसौभाग्यम्
[सर्ग १७ : श्लो० ९६-९७
षष्ठात्सपादां द्विशतीं शमीन्द्रो व्यातन्तनीति स्म स नीतिचन्द्रः । साग्रेऽपि गव्यूतिशतद्वये स्वमाहात्म्यमिच्छञ्जिनवत्किमुाम् ॥ ९६ ।।
शमीन्द्रः शमवतां साधूनां मध्ये इन्द्रः पुरंदरो द्वयोरलोचनयोस्तथा अन्येऽपि सर्वे भूपतयः सपादां द्विशतीं पञ्चविंशत्यधिकशतद्वयीं षष्ठानामुपवासद्वयलक्षणानां व्यातन्तनीति स्म कृतवान् । स किंलक्षणः । नीतौ न्याये चन्द्रः। अथ वा 'सान्द्र' इति पाठः। दृढ अतिशायिन्यायविधाता। तत्र विषये वयमेवं विद्मः। उत्प्रेक्ष्यते वा-गव्यूतीनां क्रोशानां साग्रे पञ्चविंशत्यधिके शतद्वये। सपादकोशश तवयप्रमाणे इत्यर्थः । इति हैमनाममालानुगतव्याख्यानम् । 'तस्यां यथा साग्रे च गव्यूतिशतद्वये -' इति। जिनबत्तीर्थकरस्येव स्वस्य माहात्म्य निजस्य सप्तानामीतीनां प्रशमनरूपादिक महिमानमुया पृथिव्यां किमिच्छन् काङ्कन्निव ।।
લેકાર્થ
જેમ તીર્થકર ભગવંત જ્યાં વિચરે ત્યાં બસો પચ્ચીસ કેશમાં દરેક જાતના ઉપદ્રના શમનરૂપ માહામ્ય વિસ્તરે છે તેમ પૃથ્વી ઉપર જાણે પિતાના માહાભ્યને વિસ્તારવા માટે ન હોય તેમ ન્યાયચન્દ્ર આચાર્યદેવે ૨૨૫ છઠ્ઠ (બે ઉપવાસ) કર્યા હતા. જે ૯૬ છે
द्वासप्तति सूरिसहसरश्मिः स्म निर्मिमीते पुनरष्टमानाम् । विद्मश्चतुर्विशतिकात्रिकस्य प्रसत्तिमाधातुमना जिनानाम् ॥ ९७ ॥
सूरिषु सहस्ररश्मिः अधिकप्रतापत्वेन भानुमाली पुनर्द्वयोरालोचनयोरन्येषां च अष्टमाना. मुपवास त्रिकलक्षणानां द्वासप्तति निर्मिमीते स्म कृतवान्। उत्प्रेक्ष्यते-चतुर्विशतिकानामतीतानागतवर्तमानरूपाणां त्रिकस्य त्रितयस्य जिनानां तीर्थकृताम् । चतुर्विंशतिनिभिर्गुणिता सती.द्विसप्ततिर्भवेत् । एतावता द्वासप्ततिमितार्हद्भट्टार काणाम् । केवलज्ञानि-निर्वाणि-सागरमहायशः-विमल-सर्वानुभूति-श्रीधर-दत्त-दामोदर-सुतेजः-स्वामि- मुनिसुव्रत-सुमति-शिधगति-अस्ताघ-नमि-अनिल-यशोधर-कृतार्थ-जिनेश्वर--शुद्धमति-विवेक-स्यन्दन-प्रतिनामान एतेऽतीतचतुर्विंशतिजिनाः । ऋषभ-अजित-शंभव-अभिनन्दन-सुमति-पद्मप्रभ-स. पार्श्व-चन्द्रप्रभ-सुविधि-शीतल-श्रेयांस- वासुपूज्य-विमल-अनन्त-धर्म--शान्ति-कुन्थु-अरमल्लि-मुनिसुव्रत-नमि-नेमिपार्श्व-वर्धमानाभिधाः एते वर्तमानचतुर्विशतितीर्थकराः। पद्मनाथ -सुरदेव-सुपार्श्वक -स्वयंप्रभ-सर्वानुभूति-देवश्रुत-उदय -पेढाल-पोट्टिल- शतकीर्ति - सुव्रतअसम-निष्कषाय-निष्पुलाक-निर्मम-चित्रगुप्त-समाधि-तंवर-यशोधर- विजय-मल्ल-देवअनन्तवीर्य-भद्रकृत्संज्ञा एते त्वनागतचतुर्विशतिर ईन्तः । एतेषां चतुर्विशतित्रितयजिनानां प्रसत्तिं स्वविषये प्रसन्नभावमाधातुमनाः कर्तुकाम इव विदुम इवार्थेऽत्र ॥