________________
सर्ग १७ : श्लो० ९२]
हीरसौभाग्यम्
८१७
व्रतिक्षितीन्द्रेण स सप्तपञ्चविंशन्मिताः कातरितान्यसत्त्वाः। आहारदोषाः कृतपापपोषा द्वेष्या इव द्वेषजुषा निषिद्धाः॥९२॥
व्रतिक्षितीन्द्रेण सरिराजेन सह सप्तभिर्वर्तते । सप्तयुक्ता इत्यर्थः । तादृशाः पञ्चविंशव तैर्मिताः प्रमाणीकृताः । एतावता सप्तान्विताः पञ्चत्रिंशत् द्विचत्वारिंशद्भवन्ति । द्वाचत्वारिंशत्सख्याकाः । 'सोलस उग्गमदोसा सोलस उप्पायणाय दोसाय। दस एसणाइ दोसा मिलीय सव्वे विवायाला॥' इति वचनात् । अथैतानेव पृथक विवृणोति । श्राद्धश्राद्धीभ्यः षोडश दोषाः समुत्पद्यन्ते । तानेव दर्शयति-आध्यमिक-औद्देशिक-पुतिकर्म-मिश्रकर्म-स्थापनाकर्मप्राभतिकर्म-प्रादुःकरण-क्रीतदोष-प्रामित्य-परावृत्तत्व-अभ्याहत उभिन्नक-मालापक-आच्छेधक-अनिसृष्ट-अध्यवपूरकाः । अथ साधुसाध्वीभ्यः षोडश दोषा जायन्ते । तानेव दर्शयति -धात्रीदोष-दूतीदोष-निमित्तदोष-आजीवक-वनोपक-चिकित्सा-क्रोधदोष-मान-माया• लोभ-पूर्वसंस्तव-पश्चात्संस्तव-विद्यादोष-मन्त्रदोष-चूर्णदोष-योगदोषाः। अथषणादोषा दश साधश्राद्धेभ्यः समुत्पद्यन्ते । तान पि दर्शयति-शङ्कितदोष-मक्षितदोष-बहिनिक्षिप्त-पिडित. दोष-संहृतदोष-दायकदोष-उन्मिश्रदोष-अपरिणत-लिप्तदोष-छर्दितदोषाः । तथा प्रभोजनं कर्वतां साधूनांप्रसङ्गात्पश्च दोषा भवेयुः। तेऽप्युच्यन्ते-संयोजन अप्रमाण-इङ्गाल-धूमसामान्यअकारणदोषाः। केचित्सप्तचत्वारिंशदपि दोषान्प्रतिपादयन्ति । तस्मात्तेऽपि प्रोक्ताः। परं मौला. स्तु द्विचत्वारिंशत्संख्याका एव । आहारस्य भोजनस्य दोषा अपगुणास्ते निषिद्धाः निवारिताः। एतावता सूरि(रयो) द्वाचत्वारिंशद्दोषनिर्मुक्तमाहारमभ्यवहरन्ति । किंभूता दोषाः। कातरं क्लोवं ततः शुद्धिविमुख कुर्वन्तीति कातरयन्ति । कातरयन्ते स्मेति कातरिताः। 'तत्करोति तदाचष्टे' इति प्रक्रियास्त्रेण जिप्रत्ययः। 'अन्तन्तात् क्तः' इति क्तप्रत्ययः। त्रिलोपे इप्रत्ययश्चेति सिद्धम् । उदाहरणं यथा नैषधे प्रथमकाव्ये-'नलः किंभूतः। सितच्छत्रितकोतिमण्डलः पूर्वोक्तयुक्तिरेव । सितं च छ च सितच्छत्रं करोतीति सितच्छत्रयति सितच्छब्यते से सितच्छत्रिता कीर्तिमण्डले देशे येन' इति नरहर्याम । कातरीकृता हीनसत्वा विहिता अन्ये अपरे सत्त्वाः कर्मपरिणतिवशाच्चारित्रपालनासमर्थाः प्राणिनो यैस्ते । पुनः किंभूतां । कृतं निर्मितं पापस्य दुःकृतस्य पोषः पुष्टियः । पापोपचयकारिभिरित्यर्थः । केनेव निषिद्धाः । द्वेषजुषेव । यथा विरोधवता अतीववैरभाजा भूभुजा देव्याः स्ववैरिणः पराक्रमेण निषिध्यन्ते मूलतोऽप्युच्छिद्यन्ते ॥
શ્લોકાથ
આચાર્ય દેવ હનસત્વ કરનારા અને પાપની પુષ્ટિ કરનારા એવા બેંતાલીરા દેથી રહિત નિર્દોષ આહાર હમેશાં ગ્રહણ કરતા હતા. (તે આ પ્રમાણે આઘાર્મી, ઉદેશિક, पूतिम, भिश्रम, स्थापना, प्रातिभ, प्रा०४२६५, ४त, प्राभित्य, ५२॥वृतत्व, हि० सौ० १०३