________________
सर्ग १७ : श्लो० ७८-७९ ]
हीरसौभाग्यम्
८०९
स्वस्त्रय्या नागलोकनाकिलोकभूमिलोकानां त्रिकस्य अर्थात् त्रिजगज्जनानां प्रसत्तिं मनःप्रसन्नतां प्रमोदप्रकर्ष प्रदिशति प्रयच्छति ददति ॥
શ્લેકાર્થ
જેમ વિષ્ણુએ દ્વારિકામાં મહામહોત્સવ પૂર્વક પ્રવેશ કર્યો હતે તેમ ત્રણે જગતને આનંદદાયી પ્રવેશોત્સવ થતાં આચાર્ય દેવે “ના” નગરને અલંકૃત કર્યું. એ ૭૭
तस्मिन्नतेर्गोचरयांचकार चैत्येषु तीर्थाधिपतिं मुदा सः। कण्ठीरवः शैलगुहामिवाथानैषीद्विभूषां वसतिं व्रतीन्द्रः॥ ७८॥
___ स हीरसूरिस्तस्मिन्नुन्नताभिधाननगरे चैत्येषु ऋषभदेवप्रमुखजिनप्रासादेषु तीर्थाधिपति जिनाधिराजप्रतिमां मुदा हर्षेण नतेः प्रणामस्य गोचरयांचकार विषयीकरोति स्म । नमस्कृतवानित्यर्थः । अथानन्तर देववदनात्पश्चात् व्रतीन्द्रः सूरिः वसतिमुपाश्रय विभूषां शोभामनेषीत्प्रापयति स्म । क इव । कण्ठीरव इव । यथा पारीन्द्रः शैलगुहां गिरिकंदरां विभूषां नयति ॥ इत्युपाश्रयागमनम् ॥
શ્લોકાઈ
પ્રથમ ઋષભદેવ આદિનાં જિનચૈત્યમાં ભગવંતની પ્રતિમાઓનાં ભક્તિપૂર્વક દર્શનવંદન કરીને, જેમ સિંહ ગુફાને શોભાવે તેમ આચાર્યદેવે ઉપાશ્રયને શેભા. ૭૮ છે
ततः समुद्दिश्य महेभ्यसभ्यान्धर्मोपदेशं स वशी दिदेश । पीयूषवत्तेऽपि निपीय वत्सा इवावहन्संमदमे दुरत्वम् ॥ ७९ ॥
ततो वसतावुपाश्रये आगमनानन्तरं स वशी जितेन्द्रियः सूरिमहेभ्या व्यवहारिणस्ते एव सभ्या सदस्याः सभाजनास्तानुद्दिश्य उद्देशं कृत्वा धर्मोपदेशं धर्मदेशनां विदेश ददाति
मामभ्याः पीयूषवत्सुधारसमिव निपीय पीत्वा तहेशनां सादर श्रत्वा संमदेरानन्दः कृत्वा मेदुरत्व पुष्टतामवहन्दधते स्म । के इव । वत्ता इव । यथा गवां तर्णका और स्वस्वमातरूधोमध्यविनिःसरदभिनव ततो दुग्धं पीत्वा प्रमोदादास्वाध मेदग्त्वम. पचयभावं वहन्ते । 'पीयूषोऽभिनवं पयः । पीयूषमपि' इति हैमीसूत्रवृत्त्याः॥ हि सौ० १०२