________________
- सर्ग १७ : श्लो० ७४-७५ ]
हीरसौभाग्यम्
८०७
શ્લેકાર્થ
વાજિંત્રેના ધ્વનિથી, રથોના ચિત્કારથી, અશ્વોના હેવારવથી, હાથીઓની મેઘાડંબર ગર્જનાઓથી, મનુષ્યનાં રસ્તુતિઆદિ મંગલગીતોથી અને આચાર્યદેવના ઉજજવલ યશથી समता व्याप्त मनी गयी. ॥ ७३ ।। .
स्त्रीभ्यस्तदा तद्गुणगायनीभ्यः पैञ्जूषपीयूषरसाभिषेकाम् । वाणीमधीत्याभ्यसितुं वनस्थाः शिष्या इवासन्कलकण्ठकान्ताः ॥७४॥
तस्य सरेर्गुणान् गायन्तीत्येवंशीलाभ्यः स्त्रीभ्यः पौरपुरंध्रीभ्यः सकाशात्तदा तस्मिन् संघागमनमहोत्सवव्यतिकरे पैञ्जूषयोः श्रोतृजनश्रवणयोः पीयूषरसस्य सुधानिस्यन्दस्य अभिषेकोऽभिषिञ्चन' तत्तल्यां वाणी वाग्विलासमधीत्य पठित्वा कलकण्ठकान्ताः कोकिलकामिन्यः । उत्पश्यते-अभ्यासितुं सम्यगभ्यास विधातमिव वनस्था वनवासिन्य आसन्निव संजाता इव । का इव के इव वा। शिष्या इव । यथा विनेयाः कुतश्चिद्गुरोः सकाशाकिमप्यधीत्य एकान्ते वनादिषु गत्वा स्थिता वा तदभ्यसन्ति ।।
શ્લેકાર્થ તે અવસરે આચાર્યદેવના ગુણેને ગાતી નગરવાસી સ્ત્રીઓ પાસેથી અમૃતથી સિંચાચેલી કર્ણપ્રિય વાણીને અભ્યાસ કરીને કેય શિષ્યની જેમ વધુ અભ્યાસ કરવા માટે જાણે વનવાસી બની ગઈ હતી. ૭૪
ध्वननफेरीसखभूरिभेरीभाङ्काररावैः प्रतिशब्दितेन । नन्तुं सवेशाम्बुधिशायिशौरिः प्रबोध्यते सूरिसमागमे किम् ।। ७५ ॥
ध्वनन्त्यः शब्दायमाना नफेर्यः पित्तलमय्यः वदनेन वादनीया वाचविशेषाः प्रसिद्धाश्च ता एव सख्यः सहाया यासां तादृश्यो भूरयः शतशंख्याका भेर्यो दुन्दुभयस्तासां माङ्काररावैः भाकृतिध्वनिभिः कर्तृभिः प्रतिशब्दितेन अर्थात्संनिधिवर्तिसागरमध्यप्रतिनादित त । 'पयोधिमध्यप्रतिनादमेदुरः' इति नैषधे। कृत्वा । उत्प्रेक्ष्यते-सवेशे समीपे योऽम्बुधिः समुद्र स्तत्र तन्मध्ये शेते इत्येवंशीलो यः शौरिर्नारायणः स सरेरुन्नतपुरप्रवेशोत्सवे नन्तुमर्थात्वरीन्द्रं नमस्कर्तु किं प्रबोध्यते निनिद्रीक्रियते जागर्यते इव ॥ .