SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ८०६ हीरसौभाग्यम् [सर्ग १७ : श्लो० ७२-७३ रथानभाजस्त्वरमाणतााः सुजातरूपा घननन्दकाश्च । अम्भोजनाभा इव कामरामशोभाः शताङ्गाः शतशः प्रचेलुः ॥७२॥ शतशः शतसहस्रसंख्याकाः शताङ्गा रथाः । 'शताङ्गः स्यन्दनो रथः' इति हैम्याम् । प्रचेलुः सरेरभिमुख प्रचलन्ति स्म । उत्प्रेक्ष्यते-अम्भोजनाभाः कृष्णा इव । किंभूता रथाः कृष्णाश्च । रथाङ्गं रथपाद चक्र 'पइडु' इति प्रसिद्ध सुदर्शन चक्र भजन्ति इति रथाङ्गभाजः। पुनः किंभूताः । त्वरमाणाः शीघ्रगामिनस्ताास्तुरङ्गमा गरुडाश्च येषां ते । च पुनः किंभूताः। शोभनं जातरूपं सुवर्णः काश्चन जटितत्वेन । पक्षे जातमुत्पन्न रूपमतिशायिसुन्दरशरीराकारविशेषो येषाम् । पुनः किंभूताः । घनान्बहुजनान्नन्दयन्ति प्रह्लादयन्ति । तथा धनो निबिडोऽपराप्रतिहतो नन्दकनामा खङ्गो येषां ते । च पुनः किंभूनाः। काममतिशयेन रामा मनोज्ञा शोभा येषां ते । तथा कामः प्रद्यनः रामो बलभद्रः ताभ्यां शोभा येषां ते॥ કાર્થ કુણેના જેવા સેંકડો રથ આચાર્યદેવના સ્વાગતમાં શોભતા હતા. જેમ રથને ચક (પૈડાં) છે, કુષ્ણુની પાસે સુદર્શન ચક્ર હતું. રથને જેમ વેગવંત અ જોડાયેલા છે, કૃષ્ણ પણ ગરૂડના વાહનવાળા હતા. ર સેનાના સેવાથી જેમ સુંદર ભાવાળા છે, કૃષ્ણ સુંદર રૂપવાળા હતા. જેમ ર ઘણું પ્રેક્ષકોને આનંદ આપનારા છે, તેમ કુષ્ણુ અપ્રતિહત भसवाणा ता. [भूगोमा 'घननन्दकाच' छ, तभा 'घन'। अथ २थना पड़े ઘણા કર્યો અને કૃષ્ણના પક્ષે “નને અર્થ નિબિડ એટલે કે “અપ્રતિહત કર્યો. ] કૃષ્ણ કામ-પ્રદ્યુમ્ન અને બલભદ્ર વડે શોભે છે, રથે શોભા વડે અત્યંત મનોહર છે. આમ सनी २५ २. शाले छे. ॥ ७२ ॥ तूरस्वरैश्चित्कृतिभी रथानां हयालिरुषागजगर्जितैश्च । तृणां स्तवादिध्वनितैव्रतीन्दोः श्लोकैरिवापूरि समग्रलोकः ॥७३॥ तूरस्वरैविविधवादित्रनिर्घोषश्च पुनः रथानां स्यन्दनानां चित्कृतिभिस्त्वरितगमनाव. सरोद्भवचित्कृतिसंज्ञध्वनितविशेषैः च पुनर्हयानामश्वानामालिः श्रेणिस्तस्य द्वेषाभिहिसारव इति प्रसिद्धैः तथा गजानां मदोद्धतसिन्धुराणां गर्जितैर्वृहितैस्तथा नृणां श्राद्धभागायनादि. जनानां स्तवादिध्वनितैः स्तुतिच्छन्दोगानादिभणितिभिः कृत्वा समग्रोऽपि दशदिक्पर्यन्तं पावल्लोको भुवनमपूरि निर्भर भृतः पूरितः। कैरिव । श्लोकैरिव । यथा व्रतीन्दोहरिसरेर्यशोभिः समग्रोऽपि लोकः पूर्यते स्म । 'श्लोकः कीर्तियेशः' इति हैम्याम् ॥
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy