________________
mastratimesO
O RDARSHA...
सर्ग १७ : श्लो० ६७-६८]
हीरसौभाग्यम्
८०३
શ્લેકાર્થ
જેને પાછળ ભાગ નવેઢા સ્ત્રી વડે સુશોભિત છે તેવા નવપરિણીત વરને સુહાગણ સ્ત્રી અક્ષતથી વધાવે તેમ સિદ્ધાચળની યાત્રાથી પ્રાપ્ત થયેલી પુણ્યલક્ષ્મી વડે અલંકૃત જીવનવાળા આચાર્યદેવને કેટલીક સ્ત્રીઓ મુક્તાફળ વડે વધાવતી હતી. એ ૬૬
गीतिं जगुर्नागरिकाः किरन्ती सुधां सुधादीधितिमण्डलीवत् । यां श्रोत्रपत्यैर्विनिपीय चित्रार्पितैरिवाभूयत मार्गमार्गः ॥६७॥
काश्चन नागरिका द्वीपोन्नतपुरपुरंद्यो गीति सरिगुणगान जगुर्गायन्ति स्म । किं कुर्वतीम् । गीति किरन्ती विस्तारयन्तीम् अर्थात्कर्णयोवर्षन्तीम् । काम् । सुधाममृतम् । किंवत् । सुधादीधितिमण्डलीवत् । यथा आश्विनमाससंबन्धिराकामृगाङ्कमण्डल्यः पीयूष किरन्ति, तथा नागरिका कर्णामृतवर्षिणीं गीतिं गायन्ति । यां गीर्ति श्रोत्रपत्रः कर्णपणैः कृत्वा विनिपीय सादर निशम्य मार्गस्य अजयोन्नतपुरयोरन्तरालाध्वनः मागैर्मृगगणैश्चित्रार्पितैरालेख्यस्थापितलिखितैरिवाभूयत संजायते स्म ॥
શ્લોકાર્થ
કેટલીક સ્ત્રીએ ચન્દ્રમંડળની જેમ સુધાવર્ષા મધુરી વાણી વડે આચાર્યદેવનાં ગુણ ગાન કરતી હતી અર્થાત ગુણોને ગાતી હતી. તે ગીતને કાનેથી સાંભળીને માર્ગમાં રહેલાં મને ચિત્રમાં આલેખન કરાયાં હોય તેવાં બની ગયાં. ૫ ૬૭
गजाधिरूढा व्यरुचन्कुमारा विभूषिता भूषणधोरणीभिः । प्रवालपुष्पावलिशालमानाः प्रस्थप्ररूढा इव बालसालाः॥६८॥
भूषणानां मणिस्वर्णाभरणानां धोरणीभिः श्रेणीभिः विभूषिता अलंकृताङ्गाः । तथा गजाधिरूढाः सिन्धुरस्कन्धाध्यासिनः केचन कुमाराः व्यरुचन् शुशुभिरे। उत्प्रेक्ष्यते-प्रवालानां पल्लवानां पुष्पाणां कुसुमानामावलीभिर्मालिकाभिः शालमानाः शोभमानाः प्रस्थेषु सानुषु प्ररूढा उद्ता बालसाला: लघुपादपा इव ॥