________________
सर्ग १७ ; श्लो० ६४]
हीरसौभाग्यम्
ततो द्वीपोन्नतदेवलपाटकसत्कसंघसमागमनानन्तर हीरविजयसूरिः ततोऽजयपुरादुन्नतमित्याख्या नाम यस्य तादृशं पुर प्रति प्रतस्थे। उन्नतनगराभिमुख प्रचलति स्म । किंभूतः । प्रभुः सर्वधर्मकार्यकरणप्रवणः समर्थः। पुनः किंभूतः। प्रीतमनाः श्रीपार्श्वनाथयात्रया कृत्वा हृष्टमानसः । क इव । राजहंस इव । यथा मेघागमे अभ्रमार्गो मेघावा गगनम् । 'सुराभ्रोडुमरुत्पथोऽम्बरम्,' तथा 'अभ्र धूमयोनिस्तनयित्नुमेघाः' इति द्वयमपि हैम्याम् । तस्य वहा नदी । गङ्गेत्यर्थ । 'सिद्धस्वःस्वर्गिखापगाः । ऋषिकुल्या हेमवती' इत्यपि हैम्याम् । तथा 'सिन्धु. शैवलिनी वहा च हृदिनी स्रोतस्विनी निम्नगा' इत्यपि हैम्याम् । तस्याः प्रवाहादूङ्गापयःपूरान्मानस नाम राजहंस निवाससरोवरं प्रति प्रतिष्ठते । यदुक्तम्-'मेघागम दिवि विभाव्य परापगाम्भःपूरागमैजलमथाविलमभ्रसिन्धोः। भातीति चेतसि विचिन्त्य च हंसमाला स्व मानस प्रति ततस्त्वरितं प्रतस्थे ॥' इति । तथा 'गङ्गानीरमपि त्यजन्ति कलुष ते राजहंसा वयम्' इत्यपि सूक्ते ॥
अथ द्वीपोन्नतपुरादिसंघसंमुखागमनवर्णनप्रस्तावः
શ્લેકાર્થ
જેમ વર્ષાઋતુમાં રાજહંસ, ગંગાના પ્રવાહ સમાન નિર્મલ માનસરોવર તરફ પ્રયાણું કરે તેમ શ્રી અજારા પાર્શ્વનાથનાં દર્શન કરીને જેઓનું મન ખુશ થયું છે તે સમર્થ . मायावे अना' ना२ त२६ प्रयाएर यु. ॥ ६ ॥
शिरोधृतश्वेतसुवर्णकुम्भाः काश्चिल्लसन्ति स्म विलासवत्यः। श्यामादिवालक्ष्म्य इवोद्वहत्यः संपूर्णचन्द्राम्बुजबन्धुबिम्बान् ॥ ६४॥
हीरसूरेः संमुखागमने काश्चिदनिर्दिष्टनामानः विलासवत्यः विलासो हंसहस्तिगमनादिकः शृङ्गारादिविभ्रमो वा विद्यते यासां ता लीलावत्यो वनिता लसन्ति शोभन्ते । किंभूताः । शिरसि स्वमौलौ धृता आरोपिताः श्वेता उज्ज्वलास्तथा सु शोभनो वर्णों येषाम् । अथ वा श्वेतानां रूपयाणाम् । 'स्याद्रप्य कलधौतताररजतश्वेतानि' इति हैम्याम । तथा सवर्णानां काश्चनानां कुम्भाः कलशा याभिस्ताः । उत्प्रेक्ष्यते-श्यामादिवालक्ष्म्य इव रजनीदिवसस्य श्रिय इव । किं कुर्वत्यः । उद्वहत्यः बिभ्रत्यः । कान् । संपूर्णा अखण्डाश्चन्द्रास्तथा अम्बजबन्धवो भास्करास्तेषां बिम्बान्मण्डलान् । अखण्ड चन्द्रमण्डलानादाय निशाश्रियः सूर्यमण्डलान् गृहीत्वा दिवसलक्ष्म्य इव भगवत्संमुख समेता इत्यर्थः ॥ हि० सौ० १०१