________________
सर्ग १७ : श्लो० ५७ ]
हीरसौभाग्यम्
७९७
श्रीपार्श्वनाथप्रासाद विधाप्य शिल्पिभिनिर्माप्य। उत्प्रेक्ष्यते-केनानिर्दिष्टनाम्ना सुरेण देवेन अस्मिन्नजयपुरे मुक्त कुतश्चित्प्रदेशात्स्वयमानीय संस्थापित सिद्धायतन शाश्वतजिनचेत्यमिव । पुनः किं कृत्वा । तत्र स्वनिर्मापितप्रासादे त पदमावतीप्रकटितमाहात्म्यं सागरमहेभ्यमहामहानीतपार्श्वनाथं संस्थाप्योपवेशयित्वा । उत्प्रेक्ष्यते-सिद्धिश्रिया मोक्षलक्षम्या सम स्वकीयमात्मसंबन्धिनमुपयमं विवाह मिव संस्थाप्य स्थापयित्वा । 'पाणिग्रहणमुद्वाह उपाद्यामयमावपि' इति हैम्याम् । उपयाम उपयमाविति शब्दद्वय पुनरचितुं श्रीअजयपाव नाथप्रतिमां पूजयितुं द्वादशसंख्याकानि शासनानि श्रीमान दत्त्वा स्वेनापयित्वा । 'दीयतां दशलक्षाणि शासनानि चतुर्दश। हस्तन्यस्तचतुःश्लोको यद्वा गच्छतु गच्छतु ।।' इति । अथ धूतकेशागतसिद्धसेनदिवाकरागमनसमये एव अदृष्ट एवैकश्लोकप्रेषणे विक्रमार्कदानपत्रे दानश्लोके दानम् । तत्र दशसौवर्णकलक्षाणि शासनानि ग्रामाश्च दत्ताः । उत्प्रेक्ष्यते-बादशानां सूर्याणां तेजः प्रताप काङ्कन वाञ्छन्निव । तेजःशब्देन प्रतापोऽप्युच्यते । यथा नैषधे-'एतस्योत्तरमद्य नः समजनि त्वत्तेजसां लङ्घने- 'त्वत्प्रतापानामतिक्रमेण' तवृत्तिः॥ त्रिभिर्विशेषकम् ॥ इत्यजयराजरोगापहारकाजयपार्श्वनाथप्रस्तावनम् ।।
શ્લેકાર્થ
તે પછી દેવની જેમ નિરોગી શરીરવાળા અજયરાજાએ, જાણે બીજી અધ્યા ન હોય તેવી પિતાના નામથી “અજ્યા' (અજારા) નગરી વસાવી તે નગરીમાં જિનચૈત્યનું નિર્માણ કરાવ્યું. જાણે કે ઈ દેવ સિદ્ધાયતન-શાશ્વતજિનચૈત્ય લઈ આવ્યું ન હોય ! અને તેમાં, જાણે પિતાને મુક્તિરૂપી સ્ત્રી સાથે વિવાહ ન હોય તેવા ઉત્સવ પૂર્વક શ્રી પાર્શ્વ પ્રભુની મૂર્તિનું સ્થાપન કર્યું. જાણે અજયરાજા બાર સૂર્યને પ્રતાપ ઈચ્છતો ન હોય તેમ તે પ્રભુની પૂજા માટે બાર ગામ ભેટ ર્યા. અને બીજા રાજાઓના મસ્તકે પિતાની આજ્ઞા શિરોધાર્ય કરાવી. એ ૫૪ ૫૫ પદા
नाम्नव तस्यावनिवल्लभस्य पार्श्वप्रभोस्तस्य बभूव नाम । तद्वासितस्येव पुरस्य वाराणस्या इवैतस्य निवासभूमेः॥५७ ॥
तस्यावनिवल्लभस्य तस्य पुर्वकथितस्याजयस्य राज्ञो नाम्नवाभिधानेनैव पाचप्रभोः श्री. पार्श्वनाथस्य नाम बभूव । अजयपार्श्वनाथ इति संजातम् । कस्येव । तेनाजयराजेन वासितस्य निवेशितस्य स्थापितस्य अजयपुरमिव । किंभूतस्य । अजयपार्श्वनाथस्य निवासभूमेः स्थितिस्थानकस्य । कस्या इव । वाराणस्या इव । यथा वाराणसी भगवतः श्रीपाश्र्वनाथस्य जन्मभूमित्वाद्वासस्थानम् ॥ इति पाठान्तरम् ॥