________________
७९६
हीरसौभाग्यम्
[सर्ग १७ : श्लो० ५४-५५-५६
तदा न केवल सेवकलोकानां प्रमोदः सम जनि, अपि पुनः पार्श्वनाथस्नात्रजलाभिषिञ्चना नन्तरमुपतापानां कुष्ठज्वरादिसप्तोत्तरशतरोगाणां प्रकरवृन्दैः वियुक्तो विरहितः । 'आम आमय आकल्पमुपतापो गदः समाः' इति हैम्याम् । साकेतस्य कोशलानगर्या अयोध्याराज धान्या नेता अधिपतिरजयनृपोऽपि अधिकातिशायितया दिदीपे शोभते स्म । क इव | अमृतांशुरिव । यथा घनात्ययेन शरत्कालेन न्यकृतो विध्वस्तो निराकृतो निर्वासितो यो नीरवाहो मेघस्तस्योपरोधः संरोधन तस्मान्निर्मुक्तः पृथग्भूतश्चन्द्र आश्विनपूर्णिमाकौमुदी. पतिरधिक' दीप्यते ॥ इत्यजयराजस्य रोगोपशमः ।।
લેકાર્થ
જેમ શરદઋતુ વડે તિરસ્કૃત બનેલા મેઘથી નિમુક્ત બનેલે ચન્દ્ર શેભે તેમ રેગોના સંતાપથી રહિત બનેલા કેશલાધિપતિ અજયરાજા કેઈ અપૂર્વ કાંતિ વડે ભવા લાગ્યા છે ૫૩ !
ततोऽजयाख्यं नगरं निवास्य पुरीमयोध्यामपरामिवात्र । केनापि सिद्धायतर्न सुरेण मुक्तं किमस्मिंश्च विधाप्य चैत्यम् ॥५४॥ संस्थाप्य तं तत्र जिनेन्द्रबिम्ब सिद्धिश्रिया वोपयमं स्वकीयम् । काङ्क्षनिव द्वादशसूर्यतेजा दत्त्वार्चितु द्वादश शासनानि ॥ ५५॥
भूमीभुजां शेखरयशिरःसु स्वाज्ञां सुमानामिव मालिकां सः। स्वगीर्व नीरोगतनुः क्रमेण स्वां राजधानी पुनरध्युवास ॥५६॥
ततो रोगापगमनानन्तरं सः अजयभूपालः पुनर्देशसाधनानन्तर द्वितीयवारं स्वामात्मीयां तातसंबन्धिनी राजधानीमयोध्यानाम्नी नगरीमध्युवास आश्रयति स्म । केन । क्रमेण पूर्वपश्चिमदक्षिणोत्तरदिग्वतिदेशसाधनामनस्यपरिपाट्या । स किंभूतः । स्वर्गी देव इव नीरोगतनुर्विविधामयरहितशरीरः । स किं कुर्वन् । भूमीभुजां वैताढयभूधरपर्यन्तचतुर्दिग्भूपान्मलमण्डलानां शिरःसु मौलिषु सुमानां मालिकामिव स्वां स्वकीयामाज्ञां शासनं शेखरयन्नवतंसी कुर्वन् मुकुटमिवापादयन् । 'आपीडशेखरोत्तंसावतंसाः शिरसः सजि' इति हैमीवचनात् । किं कृत्वा राजधानीमधिवसति स्म । अत्र रोगनिमुक्तिस्थाने द्वीपसमीपे अजय इति स्वनामसमाना आख्या अभिधान यस्य तादृशं नगर महत्पुर निवास्य वासयित्वा संस्थाप्य । उत्प्रेक्ष्यते-अपरामन्यां द्वितीयामयोध्यां कोशलापुरीमिव स्यकुलकमायातां साकेतनीनाम्नी राजधानीमिव । 'साकेत कोशलायोध्या' इति हैम्याम् । च पुनरस्मिन्नजयनामनगरे चत्य