________________
सर्ग १७ : श्लो ५१-५२-५३]
हीरसौभाग्यम्
७९५
पार्थेशितुः स्नात्रजलाभिषेकाकृतोऽजयोर्कीन्द्रतनूलतायाः। महामयोत्थः प्रशशाम तापो भूमेरिव ग्रीष्मभवोऽब्दवर्षात् ॥५१ ।।
ततो मञ्जूषामध्यात् श्रीपार्श्वनाथप्रतिमाप्रकटीभवनानन्तर पाश्र्वेशितुः पार्श्वप्रभुप्रतिमायाः स्नात्रजलस्य स्नपनसलिलस्य अभिषेकासिञ्चनात् अजयो नामा उर्वीन्द्रः वसुधासुधानाधीशः तस्य तनूलतायाः वपुर्यष्टर्महान्तोऽत्युत्कृष्टा ये आमया कुष्ठज्वरादयो रोगास्तेभ्य उत्था उत्थान यस्य तारशस्तापो निदाघज्वरः प्रशशाम शान्ति प्राप्नोति स्म । कस्या इव । भूमेरिव । यथा पृथिव्या ग्रीष्मान्निदाघऋतोर्भवो जनितः संतापः अब्दवर्षान्मेघवर्षणात्म शाम्यति ॥
શ્લેકાર્થ
ચીમકાળના તાપથી સંતપ્ત થયેલી ભૂમિ મેઘવર્ષાથી જેમ શાંત થાય તેમ શ્રી પાર્શ્વ પ્રભુના સ્નાત્રજલનું સિંચન કરવાથી અજયરાજાના શરીરમાં મહારગેથી ઉત્પન્ન થયેલ દાહવર શાંત થઈ ગયે. . ૫૧ છે
महामहः कोऽपि महीहिमांशौ प्रावर्ततानामयतामवाप्ते । मेने जनो यत्र निजं प्रपन्नस्वःप्राज्यसाम्राज्यमिव प्रमोदात् ॥ ५२ ॥
महीहिमांशौ अजयाभिधानवसुधासुधाकरे अनामयतां नीरोगतां समाधि अवाप्ते प्राप्ते सति कोऽप्यदभुतवैभवो महामहः अर्थाजनानामत्युत्सवः प्रावर्तत संजायते स्म । यत्र यस्मिम्नतिशायिनि उत्सवे प्रवर्तमाने सति जनस्तदजयराजपरिजनसेवकलोकः प्रमोदाग्निजमात्मनं प्रपन्नमासादित स्वः स्वर्गस्य प्राप्यं प्रभूत साम्राज्य मण्डलीकपदलक्षणाधिपत्य येन तादृशं मेने मन्यते स्म जानीते स्म ॥
પ્લેકાર્થ
અજયરાજા નિરોગી બનવાથી પ્રજાજનોએ અપૂર્વ મહત્સવ ઉજ, તે ઉત્સવમાં પ્રજાજનોએ જાણે પોતાને સ્વર્ગનું સામ્રાજ્ય પ્રાપ્ત થયું હોય તેટલો આનંદ અનુભવે. | પર છે
तदोपतापप्रकरैवियुक्तः साकेतनेताभ्यधिकं दिढीपे। घनात्ययन्यक्कृतनीरवाहोपरोधनिमुक्त इवामृतांशुः ॥ ५३॥