SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ सर्ग १७ : श्लो० ४७-४८-४९ ] हीरसौभाग्यम् ७९३ ततोऽनुकूलैः पवनैः पयोनिधौ प्रवर्तितस्तव्यवहारिपोतः। मत्तद्विपः सादिभिरध्वनीवालानं सुख द्वीपपुरं प्रपेदे ॥४७॥ . ततो विघ्नापगमनानन्तरं तद्वयहारिपोतः तस्य सागरनाम्नो व्यवहारिणो महेभ्यस्य पोतो यानपात्रं सुखं यथा स्यात्तथा द्वीपपुरं द्वीपनामनगरं प्रपेदे प्राप प्रातःद्वीपबन्दिरे सुखेनागतः। किंलक्षणः पोतः । पयोनिधौ स्वस्थीभूते समुद्रे अनुकूलैः सुखप्रवृत्तिकारिभिः पवनैर्वातैः प्रवर्तितः प्रेरितः । 'प्रेरणं प्रवर्तनम् । तत्र तुबादयः' इति सारस्वतव्याकरणम् । क इव । मत्तद्विप इव । यथा मदोद्धतो हस्ती सादिभिराधोरणैः अध्वनि मार्ग प्रवर्तितः सुखमालानं प्रपद्यते ॥ શ્લેકાર્થ જેમ મહાવતો વડે ઘેરાયેલો મન્મત્ત હાથી આલાનસ્તંભને સુખપૂર્વક પ્રાપ્ત કરે તેમ સમુદ્રમાં અનુકૂળ પવન વડે પ્રેરાયેલું સાગરશ્રેષ્ઠિનું વહાણ દીવબંદર સુખપૂર્વક આવી पच्यु ।। ४७ ॥ उत्तीर्य तर्याश्च बलिं विकीर्याप्येतामुपादाय मुतामिवाब्धेः। इहाह्वयन्कि हरितां महेन्द्रान्पार्श्व प्रणन्तुं धनतूररावैः ॥ ४८ ॥ ... भजन्नृपाभ्यर्णमथार्णवीयं वस्तूपदीकृत्य निवेद्य वृत्तम् । . पेटांडुढौके स्म पुरः क्षितीन्दो; रुजां चिकित्सामिव तां द्विधापि॥४९॥ ... अथ द्वीपबन्दिरे समागमनानन्तर स सागर आढ्यः क्षितीन्दोरजयगतीरजनिजानेः पुरः पुरस्तादग्रे पेटां कल्पपादपपूर्णनिर्मितां गञ्जूषां डुढौके प्राभूतीचकार। उत्प्रेक्ष्यते-विधापि द्वाभ्यां बाह्यान्तरङ्गलक्षणाभ्यामपि रुजामन्तरङ्गरोगाणामष्टकर्मणां बाह्यरोगाणां ज्वरादीनां चिकित्सां रुक्प्रतिक्रियामिव रोगापहारिणी औषधादिविधा । किं कृत्वा डुढौके । आर्णवीयमर्णवसंबन्धि पयोधिमध्यगतद्वीपोत्पन्नं वस्तु समुद्रान्तर्जातच वस्तु मुक्ताफलादिकमुपदीकृत्य ढोकयित्वा । च पुनः वृत्तं पद्मावतीप्रकाशितश्रीपार्श्वप्रतिमाया यानपात्रान्तरानयनानन्तर स्वोपसर्गगमनादिचरित्र निवेद्य कथयित्वा । सागरः किं कुर्वन । नृपाभ्यर्णमजयराजसमीप भजन्नाश्रयन । कैः । धनतररावैः घनानामनेकजातीयानां तुराणां वादित्राणां रावैः शब्दैः । अथ वा शब्दाद्वैतीभाव विदधानः सान्द्ररातोद्यनादैः । उत्प्रेक्ष्यते-विविधवाचनादरिद हि० सौ० १००
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy