________________
७९२
हीरसौभाग्यम्
[सर्ग १७ : श्लो० ४५-४६
आसादितप्राणितवत्पुनः स्वं विदन्निशम्येति गिरं त्रिदश्याः। आनाययन्नीरधिनीरमध्याज्जनैः स्वपोते जिनमूर्तिपेटाम् ॥४५॥
स सागरव्यवहारी जनैः स्वनाविकलोकैः नीरधिनीरमध्यात्समुद्रसलिलान्तरालाजिनमूतिपेटां त्रयोविंशतितमभगवत्प्रतिमापवित्रितमध्यमञ्जूषां स्वपोते स्वयानपात्रमध्ये आनाययत् । किं कृत्वा । निशम्य श्रुत्वा । काम् । त्रिदश्या पद्मावत्या देवताया गिरं वाणीम् । स सागरः किं कुर्वन् । पुद्वितीयवारमासादितं संप्राप्त प्राणितं जीवितव्यं येन तद्वत्स्वमात्मानं विदन जानन ॥
જાણે ફરીથી નવજીવન પ્રાપ્ત કર્યું હોય તેમ પોતાની જાતને ધન્ય માનતા સાગરશ્રેષ્ઠિએ દેવી પદ્માવતીના વચનથી પિતાના માણસો દ્વારા જિનમૂર્તિની પેટી સમુદ્રમાંથી બહાર કઢાવી અને પિતાના વહાણમાં મગાવી લીધી. ત્યાર બાદ તરત જ સમુદ્ર શાંત થઈ ગયે. . ૪૫
क्षणाददृश्योऽभवदिन्द्रजालमिवोपसर्गोऽथ प्रभोः प्रभावात् । चमत्कृतस्तत्प्रविलोक्य पेटामभ्यर्च्य भोगादि पुरो व्यधत्त ॥ ४६॥
अथ पोते पार्श्वनाथप्रतिमासमागमनानन्तरमुपसर्गो गर्जोर्जिततडिज्झात्कारितनूतजीमृत. वातादिजनितोपद्रवः क्षणाक्षणमात्राददृश्यो दृग्गोचरातीतः क्षणदृष्टनष्टः अजनिष्ट। क्रमात्प्रभोः प्रभावात् श्रीमत्पार्श्वनाथमाहात्म्यातिशयात् । किमिव । इन्द्रजालमिव । यथा कुहकं क्षणाददृश्यीभावं भजेत् । 'इन्द्रजालं तु कुहकम' इति हैम्याम् । स सागरधनी पेटां पाश्वनाथप्रतिमासत्कमञ्जूषां चन्दनमृगमदघनसारादिभिरभ्यर्च्य पूजयित्वा पुरः पेटाया अग्रे भोगादि कृष्णागुरुकुन्दरुष्कतुरुष्काद्युत्क्षेपणमादिशब्दावलिवाकुलादिकं च व्यधत्त विदधाति स्म। कृतवानित्यर्थः। स किंलक्षणः। चमत्कृतः जलदानिलायुपसर्गविलयादि विलोक्य स्वहृदये विस्मितः ॥ इत्यकाण्डोदभृतोपसर्गप्रशरनम् ॥
શ્લોકાઈ
પાર્શ્વનાથ ભગવાનની મૂર્તિના પ્રભાવથી સર્વ પ્રકારના ઉપસર્ગો ઈન્દ્રજાળની જેમ અદશ્ય થઈ ગયા, તે જોઈને આશ્ચચકિત બનેલા સાગરશ્રેષ્ઠિએ પેટીનું કેશરચંદન વડે પૂજન કરીને તેની આગળ કૃષ્ણગુરુ ધૂપઘટા પ્રગટાવી. ૪૬