________________
सर्ग १७ : श्लो० ४४ ]
हीरसौभाग्यम्
७९१
हे वत्स हे सागरव्यवहाग्नि, मयोक्तां पयोधिपयोमध्यवर्तिनी स्वस्तरोः कल्पद्रुमस्य पत्राणां दलानाम् । स्वभपणेनिर्मितामित्यर्थः । पेटां मञ्जुषां मोद्धाटयेः त्व माविकाशीकुर्याः। 'तु म उघाडीश' इति लोकभाषा । पुनस्तां कल्पपादपपत्रपेटां द्वीपनाम्नि पुरे नगरे संप्रापयेः अनुद्घाटितद्वारकपाटामेव एनां द्वीपबन्दिरे त्व नयेः । गृहीत्वा यायाः इत्यर्थः । पुनस्तत्र द्वीपपुरे अर्था बिग्त्रयात्रार्थ समेतस्याजयनाम्न उर्वीशितुः पृथ्वीपतेः राज्ञः अर्पये विश्राणयेः दद्याः । उत्प्रेक्ष्यते-पृथ्व्या भूमेः परस्य अन्यस्य वासवस्य पुरंदरस्येव एकः स्वर्गवासवो वर्तते अयमन्यो मेदिन्या वामव इव ॥
શ્લેકાર્થ
હે વત્સ, જેમાં શ્રી પાર્શ્વનાથ ભગવાનની મૂર્તિ છે તે કલ્પવૃક્ષનાં પાંદડાંની પેટી પ્રાપ્ત કર, પરંતુ તે પેટી ઉઘાડીશ નહીં, અને દીવબંદરમાં દિગ્વિજય કરવા માટે આવેલા પૃથ્વીના સાક્ષાત્ ઈન્દ્ર હોય તેવા અજયપાળ રાજાને અર્પણ કરજે.” ૪૩
उद्घाटय पेटां प्रकटां प्रणीय चित्रादिवल्लीमिव पार्श्वमूर्तिम् । छिनविदं स्नात्रजलाभिषेकाशतं ससप्तोत्तरमङ्गरोगान् ॥ ४४॥
हे सागरेभ्य, अजयो नाम राजा इदं स्नात्रस्य अस्याः श्रीपार्श्वनाथमूर्तेः स्नात्रस्य स्नपनस्य जलस्य सलिलस्याभिषेकान्सिश्चनान्सप्तसंख्या उत्तरे अग्रे यस्य तादृशं शतमेतावता सप्तोत्तरं शतमङ्गरोगान् स्वशरीरामयान छिनत्तु निराकरोतु । 'स दिशः सकला जिष्णुजयन्प्रारभावकर्मणा । सप्तोत्तरशतेनाथ व्याधिना परिपीडितः ॥ आक्रामन्निति भूपालान बलात्सौराष्ट्रमण्डलम् । क्रमात्मापदखण्डाज्ञस्त्रिखण्डावनिमण्डनः ॥ इति शत्रुजयमाहात्म्ये । कि कृत्वा । पेटा कल्पद्रुदलमण्डलघाटता मञ्जूषामुद्धाट्य द्वारद्वय विकाशीकृत्य। अपावृतद्वारा विधायेत्यर्थः । पुनश्चित्रमिति पदमादौ यस्यास्ताहशीं बल्लीमिव चित्रकवल्लीभिव 'चित्रावेलि' इति प्रसिद्धां द्रव्याद्यक्षयकारिकां पाश्वमूर्ति श्रीपार्श्वनाथप्रतिमां प्रकटां लोचनगोचरां प्रणीय कृत्वा ॥ इति पद्मावत्यादेशः॥
બ્લેકાર્થ
હે સાગરશ્રેષ્ઠિ, અ, વેરાજા પેટી ઉઘાડીને તેમાં રહેલી સાક્ષાત ચિત્રાવેલ સાન શ્રી પાર્શ્વ પ્રભુની પ્રતિમાનાં દર્શન કરશે. તે મૂર્તિના સ્નાત્રજલના સિંચનથી અજય રાજાના શરીરમાં રહેલા એકસો ને સાત રંગો દૂર થશે.” આ પ્રમાણે કહીને દેવી અદશ્ય થઈ ગઈ. છે ૪૪