________________
७९०
हीरसौभाग्यम्
[सर्ग १७ : श्लो० ४२-४३
धर्तित्वाधस्यास्तादृश्याः क्षोण्या अन्तरे मध्ये रूप्यसुवर्णमणिमाणिक्यमण्डित निधान भवति । किंलक्षणं बिम्ब निधान च । समस्तानि ऐहिकामुष्मिकाणि दुःखानि सकलानि दौस्थ्यभृत्यभाषादीनि क्लेशानि। यदुक्तं भर्तृहरिकाव्ये-'सेवाधर्मः परमगहनो योगिनामप्यगम्यः' इति । परलोके देवादिषु परप्रेक्ष्यभावो महददुःख तान्येव बहुत्वात्पयोधिः पारावारस्तस्य मन्थने विलोडने मन्थावनिभृत मन्दरगिरिस्तत्तुल्यः प्रभावो माहात्म्य यस्य तत् ॥
લોકાર્થ
હે વસ, જેમાં સમુદ્રની મધ્યમાં નિધાન હોય તેમ દુઃખોરૂપી સમુદ્રનું મંથન કરવામાં મેરૂસમાન જેનો પ્રભાવ છે, તે શ્રી પાર્શ્વનાથ ભગવાનની પ્રતિમા સમુદ્રની મધ્યમાં છે.’ ૪૧ છે
जलात्तदानाय्य जनैः प्रपूज्य संस्थापितं स्वे वहने धनेश । उत्तालवातूलमिवार्कतूलं विघ्न पुरैतद्धरति त्वदीयम् ॥ ४२ ॥
है धनेश धनपते व्यवहारिन, जनैनिजनाविकलोकै लाजलधिसलिलात आनाय्याकर्षयित्वा पुनः प्रपूज्य प्रकर्षेण चन्दनसुमकर्पूरागुरुभिरभ्यर्च्य तन्मयोक्तम् श्रीपार्श्वबिम्ब स्वे
आत्मीये अर्थात्त्वत्संबन्धिनि वहने यानपात्रे संस्थापित सत् एतत्प्रत्यक्षमविरलजलदपटलप्रचण्डपवनवेगवहनोड्यनप्रवर्तनरूप त्वदीयं तव संबन्धिन विघ्न प्रत्यूहव्यूहम निसर्गोद्रतोपसर्ग पुरा हरति अवश्य हरिष्यतीति । 'यावत्पुरानिपातयोर्योगे भविष्यदर्थे वर्तमाना' इति सूत्रेणात्र पुरा हरति इति हरिष्यतीत्यर्थः प्रयोगः। तथा 'पुरेदमूर्ध्व भवतीति वेधसा पद किमस्याङ्कितमूर्ध्वरेखया' इति नैषधे । किमिव । अर्कवलमिव । यथा उत्तालवावलं स्वरिततर प्रवर्तमान पव मानसमूहोऽकतूल हरति उड्डीय क्वचिदपि क्षिपति तथैतत्वविन्न' हरिष्यति ॥
પ્લેકાર્થ
શ્રેષ્ઠ, તે શ્રી પાર્શ્વનાથ ભગવાનની મૂર્તિને સમુદ્રમાંથી તારા માણસે દ્વારા બહાર કઢાવીને કેશરચંદન આદિથી પૂજન કરીને તારા યાનપાત્રમાં સ્થાપન કરીશ તે જેમ પ્રચંડ પવનથી આકડાનું રૂ ઊડી જાય તેમ તારાં સર્વ વિદને ક્ષણમાત્રમાં નાશ પામી જશે. ૪ર .
मोद्घाटयेः स्वस्तरुपत्त्रपेटां संप्रापयेद्वीपपुर पुनस्ताम् । परस्य पृथ्व्या इव वासवस्य तत्राजयो:शितुरर्पयेस्त्वम् ॥४३॥