SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ सर्ग १७ : श्लो० ३०] हीरसौभाग्यम् ७८३ नेकविविधजातीयबहुभिर्वा जनैः सौराष्ट्रराष्ट्रजन्मभिर्लोकः प्रणम्यमानो नमस्क्रियमाणः । जनैः किं कुर्वद्भिः । हल्लेखा उत्कण्ठा अस्त्येषामिति हल्लेखिन उत्कण्ठावन्तस्तेषां भावो हल्लेखिता औत्सुक्यम् । 'रणरणकोत्कण्ठे आयल्लकारतीहल्लेखोत्कलिके' इति हैम्याम् । आकलयद्भिबिभ्राणैः । किं कर्तुम् । इद पदाब्जं मृरिचरणारविन्दमात्मनः स्वस्य अर्थान्मस्तके अवतंसतां शेखरत्व नेतु प्रापयितुम् । पुनः स किं कुर्वन् । पश्यन्विलोकयन् । कान् । कुत्रापि प्रदेशे निकुञ्जपुञ्जान वनप्रकरान। उत्प्रेक्ष्यते-नन्दनस्य मन्दराद्रिद्वितीयमेखलावर्तिवासववनस्य बन्धन सोदरान इव। तत्तल्यानित्यर्थः। किंभूतान् । समनोभिर्विविधजातिकसमैरभिरामान देवश्च रमणीयान् । पुनः क्वापि भूमिभागे कूलंकषाः अभङ्गरङ्गत्तुङ्गतरङ्गसंगमागाहप्रबलप्रस. रत्पयः पुररंहोनिष्पातिततटीस्तटिनीः पश्यन् । उत्प्रक्ष्यते-व्योमपयोधिपत्न्याः गगनापगायाः गङ्गायाः वेणी: प्रवाहानिव । 'प्रवाहः पुनरोघः स्याद्वेणीधारारयश्च' इति हैम्याम् । किंभूताः। विशुद्धवारः विशुद्ध निर्मलमुज्ज्वल च वाः पानीयं यस्याम् । पुनः कान् । तटाकान सरोवराणि पश्यन् । उत्प्रेक्ष्यते-धरणीन्दिराया भूमिश्रिय आत्मदर्शान्दर्पणानिव । किंभूतान् । पयोभिः पानीयैः प्रकर्षण कण्ठ यावत्पूर्णान् निर्भरभृतान । पुनः कानि पुराणि नगराणि पश्यन् । उत्प्रेक्ष्यते-अत्र मेदिनीमण्डले सौराष्ट्रमण्डले वा सुत्रामपुर इन्द्रनगरस्यामरावत्याः मित्राणीव। किंभूतानि पुराणि । श्रीवासवेश्मानि श्रीणां धनधान्यादिलक्ष्मीणां श्रियो हरिप्रियाया वा वासार्थ निवसनकृते मन्दिराणीव ॥ त्रिभिर्विशेषकम् ॥ પ્લેકાર્થ કોઈ સ્થાનમાં જાણે સાક્ષાત્ નંદનવનના બંધુઓ હોય તેવાં મનહર વનકુંજને જોતા, જાણે આકાશગંગાનો પ્રવાહ હોય તેવી નદીઓને જોતા, પૃથ્વીરૂપી લક્ષ્મીના આરિતા હોય તેવા નિર્મલ જલથી પરિપૂર્ણ સરોવરને જેતા, જાણે સ્વર્ગપુરીના મિત્ર હોય અથવા જાણે લહસીને વસવા માટેનાં મંદિર હોય તેવાં નગરને જોતા તેમજ આચાર્યદેવના ચરણ કમલને પિતાના મુગટરૂપે બનાવવાને ઈચ્છતા શ્રદ્ધાળુ સૌરાષ્ટ્રદેશવાસીઓ વડે નમસ્કાર કરાતા આચાર્યદેવ આગળ વિહાર કરતા હતા. મેં ૨૭ ૨૮ ૨૯ क्रमद्वयीचङ्क्रमणक्रमेणातिक्रम्य शक्रो व्रतिनां स मार्गम् । वस्वोकसारावरजामिवात्राजया भिधानां पुरमाससाद ॥ ३०॥ स व्रतिनां शक्रो मुनीन्द्रः हीरसरिः अजय इत्यभिधान यस्यास्तादृशीं पुरं नगरीमाससाद प्राप । उत्प्रेक्ष्यते --अत्र द्वीपोन्नतनगरोपकण्ठे भूपीठे वस्वोकसाराया धनदनगर्या;
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy