________________
७८२
हीरसौभाग्यम् [सर्ग १७ : श्लो० २६-२७-२८-२९
मेरूनिव कापि सुवर्णवान्कुत्रापि
रौप्यानिव शर्वशैलान् । अप्याश्मगर्भानिव विन्ध्यभूध्रान्सिद्धा
द्रिकूटान्पथि दृष्टवान्सः ॥ २६ ॥
- पथि मार्गे सिद्धाद्रेः पुण्डरीकपर्वतस्य कूटान शिखराणि । कूटशब्दः पुनपुंसकलिङ्गयो। यथा-'ध्वज मलयजकूटाः कालकूटारकूटौ' इति लिङ्गानुशासने । दृष्टवान्पश्यति स्म । किंभूतान कूटान् । कापि कुत्रापि प्रदेशे सुवर्णैः शोभनवणैर्वान् वर्णनीयान् । कानिव । मेरूनिय । मेरवः किंभूताः । सुवर्णैः काञ्चनैः वाः प्रशस्याः। पुनः कुत्रापि स्थाने रौप्यान रूप्याणामिमे रौप्याः। रजतमयानित्यर्थः । कानिव । शर्वशैलानिव । यथा कैलाशाः कलधौतस्वरूपा भवन्ति । 'रजताद्रिस्तु कैलाशः' इति हैम्याम् । अपि पुनः वचन भूभागे आश्मगर्भान अश्मगर्भाणां हरिन्मणीनामिमे । मरकतमणिमयानित्यर्थः । कानिव । विन्ध्यभूध्रानिव । विन्ध्योपमान श्यामवर्णत्वात् । श्यामनीलवर्णयोः शास्नेष्वैक्यमेव दृश्यते । यथा-'नीली विनील नभः' । तथा-'जसतणुकंतिकडप्पसिणिद्धउ । सोहइ फणमणिकिरणालिद्धउ नेन्नवजलहरतडिलय. लंछिउ ॥ इति । अत्र पार्श्वनाथो मरकतवर्णः, जलधरः श्यामवर्णः, अनयोरुपमेयोपमानता जाता इति ॥ इति श_जयपरिसरभुवं विहायाग्रे प्रस्थानम् ॥
શ્લેકાર્થ
મેરૂની જેમ કોઈ સુવર્ણમય, કૈલાસની જેમ કોઈ રૂપ્યમય અને વિધ્યાચલની જેમ કઈ મરકલમમણિય એવા રસ્તામાં આવતા શત્રુંજય પર્વતનાં શિખરોને જોતા આચાર્યદેવે આગળ વિહાર કર્યો. એ ૨૬ છે
कुत्रापि बन्धूनिव नन्दनस्य निकुञ्जपुञ्जान्सुमनोभिरामान् । वेणीरिव व्योमपयोधिपत्न्याः कूलंकषाः कापि विशुद्धवारः॥२७॥ इवात्मदर्शान्धरणीन्दिरायाः कचित्तटाकांश्च पयःप्रपूर्णान् । मित्राणि सुत्रामपुरः किमत्र श्रीवासवेश्मानि पुनः पुराणि ॥२८॥ हल्लेखितामाकलयद्भिरात्मावतंसतां नेतुमिदं पदाब्जम् । श्राद्धैरिवानेकजनैःप्रणम्यमानः स पश्यन्पुरतोऽजिहीत ॥२९॥
.. स प्रभुः सरिः पुरतः शत्रुजयाद्रिकूटानि निर्मुच्यावेतनमार्गे अजिहीत । 'ओहाङ् गतौ' धातुः । अद्यतनप्रयोगः। गच्छति स्म प्रचलितवान् । स किं क्रियमाणः । श्राद्धैः श्रावकैरिषा